2023-09-04 10:43:19 by jayusudindra
This page has been fully proofread once and needs a second look.
स्तोकिताप्सरोगणमहिममहितः उडुपतरणिवंशावलम्बिजनाकलितरसानु -
भावः राघवसदृशो मत्स्यराजः कन्दर्पकेतुर्नाम । एष किलानेकभूमिका-
ग्रहणविद्यानुरूपविविधशिक्षावलजागरूकपरिवारपरिवृतो नृत्यत्प्रमदाधि-
करणस्थानभूषायमाणो लसदङ्गहारो रागशाली आनर्तदेशाधिपतिः कल-
कण्ठो नाम इति ।
शौर्यशालिनि तदा प्रियसख्या वर्णिते सदसि राजकदम्बे ।
स्तोत्रपाठरसिकादपरं नो मागधान्नृपसुता बहु मेने ॥ ३४ ॥
तदनु तेषां हर्षेण सहाकृष्य दृष्टिमन्तःपुरं गतायां भर्तृदारिकायां
प्रतिकलं जृम्भमाणयौवनभरलोचनलोभनीयावस्थायां मदादौ परिजने
कर्तव्यमूढे देवे आकाशभूपेऽपि चिन्ताव्याकुलचेतसि यथागतं गतवति
मिलितराजवर्गे, अतिक्रान्ते कस्मिंश्चित्काले, कदाचित्परिवादिन्या विप-
ञ्च्या अपरिवादिन्या चर्यया च वलक्षेण कान्तिकलापेन नवलक्षेण गुण-
वृन्देन युक्तः कोऽपि मुनिरागत्य राज्ञा पूजितः कंचन युवानमवर्णयत् ।
पश्चाज्ज्ञातं स मुनिर्नारद इति ।
मत्स्याः । अप्सरांसि जलयुक्तजलाशयाः । उडुपतरणिवंशाः प्लवनौकावेणवः । 'अस्ति
मत्स्यस्तिमिर्नाम शतयोजनविस्तृतः । तिमिंगिलगिलोऽप्यस्ति तद्गिलोऽप्यस्ति
राघव ॥' 'मत्स्यो मीनेऽथ पुंभूम्नि देशे' इति सुधा । भूमिका भूमिः । प्रमदः
संतोषः । अधिकः रणः युद्धम् । अङ्गं देहः । हारः माला । पक्षे वेषः । प्रमदाधि-
करणस्थानं वनिताधारस्थलम् । अङ्गहारोऽङ्गविक्षेपः । 'आनर्तो देशभेदे स्यान्नृत्य-
स्थाने' इति लिङ्गाभट्टः । शौर्यशालिनीति । मागधः मागधदेशाधिप इति च ।
'स्युर्मागधास्तु मगधा बन्दिनः स्तुतिपाठकाः' इत्यमरः । इति तत्त्वार्थः ॥ ३४॥
कदाचिदिति । 'परिवादोऽपवादे स्याद्वीणावादनवस्तुनि' इति । 'वलक्षो धव-
'लोऽर्जुनः' इत्यमरः । लक्षं संख्याभेद इति परमार्थः । विरोधस्तु शब्दत एव ।