2023-09-04 10:34:34 by jayusudindra

This page has been fully proofread once and needs a second look.

भञ्जिकापुञ्जेषु तद्दर्शनाश्चर्यनिश्चलजनेषु च विभाविते जडचेतनविपर्यासे,
चलनक्रियानुमीयमाने आगारचित्रप्रतिमाचामरग्राहिवनिताजनताविवेके
विवक्षुभूपसंकेतदृक्प्रसारमूकीभवत्सभाजने सभाजने तत्रतत्र पर्यटति
ताम्बूलकुसुमचन्दनपटवासादिमङ्गलद्रव्यदायिजने । राजाज्ञयाकारिता
भर्तृदारिका शचीव निर्जरनारीकदम्बपरिवृता मुग्धमुग्धनेपथ्या
 
रङ्गधरांसा तुङ्गकुचश्रीः ।
आप च मूर्च्छा भूपतिपङ्किम् ॥ ३४ ॥
 
ततस्तु तां चम्पकवल्ली नाम सखी प्राह - 'भर्तृदारिके, पश्यैते
राजपुत्रास्त्वयि संसक्तचेतसः । तदेतेष्वन्यतममङ्गीकुरु । कथयाम्येतेषां
नामरूपक्रियागुणान् । तथाहि ।
एष किलानेककाण्डचक्रकीर्तिसंपच्छोभमानवाहिनीभरमज्जित विपक्ष-
भूभृत्कदम्बो महासत्त्वप्रचाररमणीयो दर्शितानेकनिकट कान्तारागोज्जृम्भ-
माणोत्कलिकोऽयमगाधहृदयः सिन्धुराजो राजनन्दनो नाम । एष किल
'सर्वतोमुखानिरुद्धसंचारसार्थकितानिमिषचूडामणिविभवः निजविलास-
 
किसलयश्च । 'समौ चन्द्रकमेचकौ' इत्यमरः । 'पतंगः शलमे शालिप्रभेदे पक्षि-
सूर्ययोः' इति सुधा । दान्ता दन्तविकाराः । पक्षे - निगृहीतेन्द्रियाः । हिरण्यो
हिरण्यकशिपुः । ताम्रम् । पक्ष - लताश्चाम्राश्च वृक्षभेदाः । 'दुर्वर्णं रजतं रूप्यम्'
इत्यमरः । चन्द्रं सुवर्णम् । तारं रजतम् । वरा उत्तमाः । पक्षे -जामातरः
पाण्डवाः । सभाया जनः। भाजनं पात्रं च । 'आकल्पवेषौ नेपथ्यं' इत्यमरः । रङ्ग-
धरेति । सा पद्मावती रङ्गधरां प्राप मूर्च्छा च भूपतिपङ्क्ति प्रापेत्यन्वयः ।
पङ्किरिति वृत्तस्य नाम ॥ ३४ ॥ तथाह्रीति । काण्डा अश्वाः । चक्रं वृन्दम् ।
सत्त्वं व्यवसायः । कान्ताया रागोऽनुरागः । उत्कलिका उत्कण्ठा । पक्षे- काण्डं
जलम् । कीर्तिः पङ्कः । विपक्षभूमृदगरुत्पर्वतः । सत्वा जन्तवः । कान्ताराणा-
मगा वृक्षाः । उत्कलिकास्तरङ्गाः । 'द्रव्यासुव्यवसायेषु सत्त्वमस्त्री तु जन्तुषु' ।
सर्वतोमुखानि यस्य सः । अनिमिषा देवाः । पक्षे - सर्वतोमुखमम्भः । अनिमिषा