2023-09-04 10:26:38 by jayusudindra

This page has been fully proofread once and needs a second look.

केचन दिग्गजा इव भद्रासनशोभावहाः शृङ्गारसुन्दराः सार्वभौमा-
दिकसंपदश्च ।
अथ तान्राजपुत्रान्देवस्तां सभामनयत् । या खलु महाराजैरिव
प्रकृतिहृदयज्ञैः दुष्पुत्रैरिव गोत्रामयैः लोलुपैरिव तीव्रकरणैः अनल्प-
शिल्पिवर्गैः सर्गविस्मापितविश्वकर्ममानसैर्निर्मिता ।
तस्यां किल संवर्तकालकलायामिवाम्बरमणिगणभूषितायां वरुण-
भार्यायामिवानन्तरत्नच्छायोद्भासितपुत्रिकादर्शनहर्षितजनचित्तायां मयूरै-
रिव भासुरचन्द्रकान्तैः गरुडैरिव विलसत्पतंगमणिभिः कपिभिरिव
सुनीलैः प्रभातकालैरिव पद्मरागोज्ज्वलैरिन्द्रैरिव सवज्रैः वसन्तवृक्षैरिव
सप्रवालैः मणिजालकैरलंकृतायां सभायां योगिष्विव दान्तेषु दानवेष्विव
हिरण्यराजितेषु वनसंनिवेशेष्विव बकुलताम्रेषु क्षुद्रग्रामेष्विव दुर्वर्ण-
प्रचुरेषु शरन्निशाकाशेष्विव चन्द्रताराभिरामेषु द्रुपदराजेष्विवानेकवरपा
दसमर्पितपाञ्चालिकेषु आसनेषूपविष्टे राजपुत्रकदम्बके, नटनटितशाल-
 
अप्सरोविशेषः । पक्षे - मेना पार्वतीमाता । मेनैव मेनका । अनेकशिखर-
श्रीरनेकाग्रसंपदिति लोकोक्तिः । पक्षे-शिखरं पर्वताग्रम् । 'कटक-
स्त्वद्रिनितम्बे बाहुभूषणे' इति । सपक्षनन्दना मित्रहर्षकाः । पक्षे - हिमा-
द्रितनयो मेनाकः । स सगरुदिति पुराणम् । भद्रासनं नृपासनम् । पक्षे - आसनं
स्कन्धः । 'रसे नाट्ये च शृङ्गारः करिमण्डन एव च' इति । या खल्विति ।
प्रकृतिः प्रकृष्टकरणममात्यश्च । भूम्यां मयो दैत्यशिल्पी । तादृक्समर्था इति
भावः । अभेदस्तूपचारः । पक्षे-कुलस्यामयो रोगः । तीव्रकरणैः शीघ्रकर्मभिः ।
पक्षे - तीव्राण्यस्वाधीनानि करणानीन्द्रियाणि येषां ते । 'करणं कारणे कामे साध-
नेन्द्रियकर्मसु' इति । तस्यामिति । अम्बरमणिगणः सूर्यसमूहः । पुत्रिकायां
पाञ्चालिकायाम् । पक्षे-सुता । अनन्तः शेषो वरुणजामातेति पुराणम् । चन्द्र-
कान्तादयः पञ्च मणिभेदाः । पतङ्गमणिः सूर्यकान्तरत्नम् । पक्षे - चन्द्रका मयूर -
गरुतः । अन्तोऽप्रभागः । पतङ्गाः पक्षिणः । मणिः श्रेष्ठः । प्रवालो <flag></flag>मः