2023-09-04 10:13:36 by jayusudindra

This page has been fully proofread once and needs a second look.

दक्षः पुण्यवतां श्रेष्ठो नो चेत्तस्य कथं भवेत् ।
एको राजा द्वितीयस्तु जामाता राजशेखरः ॥ ३२ ॥
 
किं च ।
दत्वा पाञ्चालिकामात्रं नरमात्राय पार्षतः ।
धर्मं गुणं च विजयमपि किं नाप भाग्यतः ॥ ३३ ॥
 
अतः 'सप्रयत्नेन पुरुषेण भाव्यम्, दैवं तत्सहकारि भवति' इति प्रज्ञा-
वतां वादः । अतः परमार्यपुत्रः प्रमाणम्' इत्युक्त्वा जोषमासीत् ।
विरतवचनायां तस्यां देव्यां स्वयंवरमहोत्सवाय राज्ञा यतमानेन सर्वेऽपि
भूतलभाजो राजपुत्रा आकारिता आजग्मुः ।
तत्र केचन शेषा इव लसन्मणिमालालंकाराः कुण्डलिनो वारुणी-
प्रमदाः कञ्चुकिनो रसातलं भूषयन्तो भूभृतः । केचन कैलासपतय इव
सार्या वृषप्रियाः सुकुमारा अहीनमालाभरणा राजशेखराः । केचन
तुहिनगिरय इव अचलसंबन्धयोग्याः रूपेण मेनकामपि मोहयन्तः
अनेकशिखरश्रीविराजिताः लसत्कटकाः सपक्षनन्दना धराभृच्चक्रवर्तिनश्च ।
 
चेशेत्यादिनिन्दा । शिवश्चन्द्र इति तत्त्वार्थः । वरो जामाता । दक्ष इति । भूपः
भूपश्रेष्ट इति स्तुतिः । चन्द्रः शिव इति । चन्द्रोऽपि दक्षजामातेति पुराणम् ।
दत्त्वेति । 'पाञ्चालिका पुत्रिका स्याद्वस्त्रदन्तादिभिः कृता' इत्यमरः । मनु-
ष्यमात्रायेति । भाग्यस्तुतिः । तत्त्वार्थस्तु द्रौपदीम् । अर्जुनाय । धर्मम् ।
भीमम् । पार्थम् । अपिशब्दान्माद्रेयौ ग्राह्यौ । 'गुण: सूदे वृकोदरे' इति ।
'नरो मनुष्यार्जुनयोः' इति । 'मात्रं कात्स्न्यैऽवधारणे' इत्यमरः । 'आर्य-
पुत्रेति संबोध्यः पतिः पत्नीजनेन तु' इति । शेषा इवेति । वारुणी मद्यं
तेन प्रकृष्टमदाः । पक्षे - वारुणी शेषभार्या प्रमदा वनिता येषाम् । 'रसा-
तलं नागलोकः' इत्यमरः । 'सुकृतं वृषः' इत्यमरः । 'सुकुमारं तु कोमलम्'
इत्यमरः । अहीनः सर्पश्रेष्ठः शेषः । अचलो निश्चलः । पक्षे पर्वतः । मेनका