2023-08-30 14:37:05 by jayusudindra
This page has been fully proofread once and needs a second look.
अपि च, अथोदरशोभां च कण्ठे कंधरोल्लसितत्वं केशेषु कुन्तलस-
त्स्थितिं पाणौ सदाशयाभिरामत्वं सर्वाङ्गे च धारयति ।
यं चाङ्गदोल्लसितं सङ्गरचितशोभान्वितसूर्यसुतं रामं रामानुजं चाहुः ।
येन च शरेणेव बहुविदारणक्षमेण सुकविकाव्यबन्धेनेवापरुक्षरमैत्री-
भाजा महावराहेणेव महीभुजाश्लेषरसज्ञेन मुमुदे प्रजा ।
यस्मै च माधवाय ललितलताङ्गीकरणयोग्याय उत्कलिकाभिरामा स-
ज्जालकोल्लसिता अनेककोषस्थितिरमणीयायोजना लताततिरिव रुक्मि-
सुधा । अपि चाथोदरेति । अथेति च्छेदः । उदरस्य शोभां कण्ठे कण्ठव-
दुल्लसितत्वं केशेषु केशवत्समीचीनस्थितिं करे कराभिरामत्वमङ्ग इति चमत्कारः ।
तत्त्वार्थः—–अथो इति च्छेदः । दरः शङ्खः । कंधरो मेघः । कमुदकम् । अव्य-
यमेतत् । कुन्त आयुधमेदः । आशयो मनः । 'कं शिरोऽम्बुनोः' इत्यव्यय-
वर्गामरः । 'पञ्चशाखः शयः पाणिः' इत्यमरः । 'अथो अथ' इत्यमरः । 'आशयो
मानसाधारयोरपि' इति कोषः । यं चेति । अङ्गदस्तारेयः । सङ्गरो युद्धम् ।
चिता प्रसिद्धा । सूर्यसुतः सुग्रीवः । पक्षे अमिति च्छेदः । विष्णुमित्यर्थः ।
'अकारो ब्रह्मविष्ण्वीशकमठेष्वङ्गणे रणे ' इत्येकाक्षरकोषः । 'अ इति ब्रह्म' इति
श्रुतिः । 'अक्षराणामकारोऽस्मि' इति गीता । 'अक्षरः सर्ववागात्मा परब्रह्माभि-
धायकः' इति श्रीभाष्यम् । गदा कौमोदकी । सङ्गः समागमः । सुरतमिति
यावत् । सूर्यसुता कालिन्द्याख्या कृष्णपत्नी । येनेति । बहुविदेति रणक्षमेणेति
पदद्वयम् । पक्षे एकमेव पदम् । एवमग्रेऽपि । बहुविदा बहुज्ञेन । पक्षे विदारणं
भेदनम् । अपरुषा अपगतरोषेण । नाशरहितमित्रत्वभाजा । पक्षे अक्रूरवर्ण-
घटनाभाजा । महीभुजा राज्ञा ह्यर्थरसज्ञेन ।पक्षे भूदेवीवाह्वालिङ्गनस्वादा-
भिज्ञेन । यस्मै चेति । माधवो मधुकुलोत्पन्नो रमापतिर्वा । लताङ्गी वनिता ।
करणं नागादिबन्धः । उत्कलिका उत्कण्ठा । सज्जेति अलकोल्लसितेवि पदद्वयम् ।
अनेककेति च्छेदः । नैकेत्यर्थः । उषःस्थितिरमणीया योजना प्रातःकालस्य या
स्थितिः सद्भावः । उषःकाल एवेति यावत् । रमणीयमायोजनं सुरतं यस्याः
<flag></flag> । अनेन पद्मिनीत्वमुक्तम् । उषसि सुरतप्रिया पद्मिनीति कामशास्त्रम् ।