2023-09-04 10:08:32 by jayusudindra

This page has been fully proofread once and needs a second look.

समूहमिव रक्ताशोकनवपल्लवोल्लसितम्, अनिरुद्धमिव चित्रलेखालंकृतं
पाणिं गृहीतुं कः पुमान्कृतसुकृतराशिर्वर्तत इति न जाने । न केवलं
मनुष्येष्वपि, किं तु देवेष्वपि । यतः इन्द्रो भूभृज्जातानाप्तः, सूर्यस्तु
हंसः, चन्द्रस्त्वेकहस्तश्रवणः' इत्यालोच्योत्तुङ्गसौधगतमणिमञ्चिकायामुप-
विष्टः प्रसन्नचन्द्रमण्डलमवेक्ष्य
'दिष्टेन दत्ता सा शोभा चन्द्रं प्राप्य लसत्यलम् ।'
इत्युक्त्वा किंचिद्धसन्तमाकाशभूपमासाद्य प्राप्तावसराभणद्देवी-
 
'पित्रा दत्ता यथा कन्या प्राप्येव सदृशं वरम् ॥ ३० ॥
 
इति । ततश्च देवोऽपि किंचित्तरलितमस्तकं प्राह — 'देवि, सत्यमेतत् ।
मयापि ज्ञातं पुरैव । किं तु सरस्वत्या इव प्रवालकरायास्तव नन्दिन्याः
सदृशो वरः क्व इति चिन्तयन्नपि न निश्चयं प्राप्नोमि देवेष्वपि, किं
पुनर्मनुष्येषु । यतः शेषः पूषा च सदारदः । इन्द्रः समुद्रश्च नीर-
सानन्दः । अस्त्वेतत् । तरुणि, स्वशत्रोरपि कन्या मा भूत् । पश्य ।
 
मुग्धे भूतेशभूतेशशिरोमण्योस्तु को वरः ।
श्लाघ्यो दक्षस्य धिक् कन्याताततां दुःखजीवनः ॥ ३१ ॥
 
इति । अथ सा भर्तृगदितमाकर्ण्य ' हो किमुच्यते ।
 
बाणपुत्री सखी सेवि पुराणम् । भूभृज्जाता राजपुत्री । अनाप्त इति निन्दा ।
तत्त्वार्थस्तु पर्वतसमूहद्विट् । संन्यासी । ततश्चेति । 'प्रवालोऽस्त्री किसलये
वीणादण्डेऽथ विद्रुमे' इति । स इति भिन्नं पदम् । दारान्द्यति खण्डयतीति दारद
इति निन्दा । तत्त्वार्थस्तु दारदो विषं तेन सहितः । 'दारदो वत्सनाभश्च' इत्य-
मरः । पक्षे - सदेति भिन्नं पदम् । अरदो दन्तरहितः । कदाचिच्छिवः पूष्णो
दन्तानपातयदिति भागवतम् । नीरसो निर्वीर्य आनन्दो यस्येति निन्दा । तत्त्वा-
र्थस्तु – अभूम्यानन्दः । पक्षे - नीरेण जलेन सानन्दः । मुग्ध इति । पिशा-