2023-09-04 10:01:54 by jayusudindra
This page has been fully proofread once and needs a second look.
अथ कदाचिद्वियन्नृपाल एकभार्यासक्तोऽपि प्रजारहितो नतनया-
पेक्ष्यपि तनयापेक्षी मदनमूर्तिमिव कमलोदराज्जातां कांचन कन्यकाम-
लभत । ततश्च गतेषु केषुचिद्दिवसेषु
भूर्गाङ्गेयं जनयन्त्यनुदिनमवनीपतेर्मुदे भवति ।
इति सेर्ष्येव कुमारं प्रासूत तदा धरादेवी ॥ २८ ॥
चित्रमिदं शृणु ।
तोषयामास नृपतिं तत्कलत्रं धराद्वयम् ।
तत्रैका गोत्वमासाद्य महिषीभूय चापरा ॥ २९ ॥
अस्त्वेतदपि । भूयसी वेला संजाता । तत्संक्षेपतः कथयामि कथ-
नीयमशेषम् । अन्यदा तु राजपत्नी धरादेवी प्रथमोच्छ्विसितकुसुमकलि-
कयेव मल्लीलतां शरत्कालकलयेव राकानिशां निलिम्पतरङ्गिण्येव हर-
चन्द्ररेखां नवनवोन्मेषशालिबुद्ध्येव कविकृतिं विनयसंपदेव विद्यां
अभिनवयौवनोद्गत्या राजमानां तनयां विलोक्य 'इयं किल विवाहयोग्या
जाता । अस्या मानसकासारमिव तुच्छीकृतसकलसरोजातम्, गणिका -
वितरणं स्पर्शनम्' इति च । पक्षे - स्पर्शनो वायुः । 'आकाशाद्वायुः' इति श्रुतिः ।
'शब्दगुणमाकाशम्' इति तर्कशास्त्रम् । अथेति । प्रकृष्टजाराणां हित इति
विरोधः । प्रजया संतत्या रहित इति परिहारः । नतनयेति शब्दतो विरोधः । नतो-
नम्रश्च नीतिशास्त्रापेक्षावांश्च । पद्मावती पद्मोत्पन्नेति पुराणम् । भूरिति । गाङ्गेयं
कुमारं षण्मुखं (स्वर्णं) चेति चमत्कारः स्वर्णं । पुत्रमिति तत्त्वार्थ: । 'कुमारस्तु शुक्रे
स्कन्दे वयु राजेऽश्ववारके । बालके वरुणाद्रौ ना न द्वयोर्जात्यकाञ्चने ॥' इति
सुधा । तोषयामासेति । भूमिः, धराभिधाना वनिता चेति धराद्वयम् ।
धेनुत्वं सैरिभीत्वमिति चमत्कारः । भूमित्वं नृपपत्नीत्वमिति तत्त्वार्थः । अन्यदा
त्विति । सरोजातं पद्मं कासास्कदम्बं च । रेखा लक्षणव्यञ्जका चित्ररेखा च ।