2023-09-04 09:54:55 by jayusudindra
This page has been fully proofread once and needs a second look.
प्रजारञ्जनं वीक्ष्य राज्ञोऽस्य देशे पुरी पन्नगानां किलात्रागतेति ।
न चित्रं प्रियाभोगिनां सा यतस्तद्भुजङ्गाः पुराणप्रसिद्धा वभूवुः ॥२४॥
तत्र चास्ति प्रशस्तप्रतापज्वालावली कवलितनिखिलाहितजन्यनिर्जितसौ-
जन्यवर्जितराजन्यवनिताजननयननीलनीरजमाला विशृङ्खलगलदश्रुधारान-
दीमातृकायमानभुवनश्लाघितयशःप्रसरः सर इव सुनायकगुणमणिः
मणिरिव सन्मालामध्यस्थितो राजा लसत्याकाशराजो नाम ।
यश्च युधिष्ठिर इवानन्तविजयघोषमुखरित दि<flag></flag>ण्डलः । अर्जुन
इव देवदत्तसंपत्तिरस्कृतसुरासुरः । जरासन्ध इव भीमयुद्धविशारदः ।
यस्मिन्रक्षति क्षितिं द्वन्द्वं युग्ममेव । विग्रहो देह एव । कलिर्युगमेव ।
किं पल्लवितेन ।
प्रलम्बता हलिद्वेषिण्यसुरेऽपि सुरेऽपि च ।
पयोधरयुगे नैव रमणीनां कदाचन ॥ २५ ॥
शंकरः पुरुषेषूग्रः स्त्रीषु चण्डी नगात्मजा ।
कुमारेषु महासेनस्तारकानन्दघातुकः ॥ २६ ॥
स हि राजहंसमण्डलघनांश्रयः स्पर्शनोद्भवनिदानम् ।
कल्याणशब्दगुणयुग्राजाकाशाभिधो जयति ॥ २७ ॥
प्रजारञ्जनमिति । प्रकृष्टजारं लोकम् । भोगिनां विलासिनां प्रियाः । पुराणा
वृद्धा इति प्रतिद्धा इति चमत्कारः । तत्त्वार्थस्तु – प्रजानां रञ्जनम् । सर्पाणां
प्रिया भागवतादिपुराणेषु प्रसिद्धाः । यश्चेति । 'अनन्तविजयं राजा कुन्तीपुत्रो
युधिष्ठिरः' । 'देवदत्तं धनंजयः' इति गीतावचनाद्द्वावपि शङ्खभेदौ । यस्मि-
न्निति । द्वन्द्वं कलहयुग्मयोः' इत्यमरः । 'विग्रहः समराङ्गयोः' इति 'कलिः
स्त्री कलिकायां ना शूराजिकलहे युगे' इति सुधा । प्रलम्बतेति । 'प्रलम्बौ
हारदानौ' इति । शंकर इति । चण्डी निष्कारणको<flag></flag>ना । पक्षे - दाक्षायणी
देवी । कुमारो बालकः स्कन्दश्च । तारका कनीनिका दैत्यभेदश्च तारकः ।
स हीति । 'घनो मेघे मूर्तिगुणे त्रिषु मूर्ते निरन्तरे' इत्यमरः । 'विश्राणनं