2023-09-04 09:32:45 by jayusudindra
This page has been fully proofread once and needs a second look.
तिमिरबाधा कृष्णपक्षे । पुण्डरीकोत्पत्तिः सरसि । पाण्डुकथाश्रवणं
महाभारते । रोहिणीसंबन्धश्चन्द्रमसः । कुसुमपतनमालवालेषु । उष्ण-
वायुप्रसारो ग्रीष्मे । क्षयः संवत्सरेषु । किं बहुना ।
मणिः सरुग्नदीवर्गः सदा बहुलगद्गदः ।
सामयश्रीरथाभाति दैत्यदानवमण्डले ॥ २३ ॥
यत्र च । मालिन्यान्विता आरामा न रामाः । राजद्वेषिणः कोका
न लोकाः । किं च । निषादादिजातिभेदसंकुलाः स्वरा इव भूधराः ।
चरणप्रहारमुदिता अशोका इव वीरलोकाः । तत्तादृशस्योपवर्तनस्य मध्ये
अस्ति पुरंदरपुरःसरनिलिम्पजनतास्तुतसंपत्प्रपञ्चमणिमञ्चायमाननाकलो-
कप्रतिबिम्बायितशोभाभवनं वनमिव कमलावासस्थानम् । आस्थानं सर्व-
संपदां पद्मवन्निशान्तरमणीयं लसत्सुराजन्यमप्यदृष्टसुराजन्यं नारायणपुरं
नाम नगरम् । यत्र च सूर्यसोमसंततिपठिता वारा इव वीराः । बात-
गतिबन्धवः कुरङ्गा इव तुरंगाः । श्रीनिवासयोग्यानि वनानीव भव -
नानि । किं प्रपञ्चेन ।
रत्नमाला । 'पाण्डुर्नृपे गदे श्वेतगुणे ना गुणिनि त्रिषु' इति रत्नमाला । 'गौस्तारा
कण्ठरोगश्च रोहिणी' इति च । 'कुसुमं पुष्पफलयोः स्त्रीरजोनेत्ररोगयोः'
इति । उष्णम् । वायुः । क्षयः । मणिरिति । सरुक् सरोगः । पक्षे-
सकान्तिः । बहुलगद्गदः मिलद्रोगः । पक्षे - गद्गदो ध्वनिविशेषः । आमयश्री रोग-
संपत् । पक्षे मयो दैत्यशिल्पी । तिमिरेत्यारभ्य परिसंख्यालंकारः । मालि
न्येति । मालिन्या मालाकारवनितया । पक्षे-मालिन्यं मलिनत्वम् । किं चेति ।
'निषादं कुवते गजाः' इत्यजयः । पक्षे - किराताः । वनितापादप्रहारोऽशोकवृक्षाणां
दोहदमिति कविसमयः । पक्षे - चेति भिन्नं पदम् । तत्तादृशस्येति । 'देश-
विषयौ तूपवर्तनम्" इत्यमरः । 'निशान्तपस्त्यसदनम्' इति च । यत्र चेति ।
वारः सूर्यादिदिवसः । वायोर्वाहनं कुरङ्ग इति कविसमयः । श्रीनिवासः पद्मम् ।