2023-09-04 09:26:48 by jayusudindra
This page has been fully proofread once and needs a second look.
इत्यात्मन्येवालोचयन्मदनवेदनातिरस्कृतेतरवेदनो मनःकल्पितां तां
कान्तां स्वसमीपमागतामिवाकलयन् प्रसारितबाहुयुगल आलिङ्गितुमिच्छन्
तत्र किमप्यादृष्ट्वा 'अये, वञ्चितोऽस्मि मदनहतकेन यौवनेन दैवेन
वामेन वा । अथ वा स्मृतेरेवापराधः । यया नेयं वनितेति ज्ञापितम् ।
तथा हि ।
ईषद्धासतरङ्गिताधरपुटोन्मीलन्निषेधाक्षर-
श्रेणीसूचितरागसागरमिलल्लज्जानदीप्रक्रमाम् ।
क्रोडे तां प्रणिधाय चुम्बितुमुपक्रान्तेऽथ कान्तामणिं
मय्यानन्दयुते विघातमकरोत्काचित्स्मृतिः पामरी ॥ २२ ॥
इति चिन्तयन्स्थितः । तिष्ठत्वेतत् । इतः सापि स्ववृत्तान्तं वक्तुमारभत ।
ज्ञात एव किलानस्तमितामितमतिसमस्तलोकस्थितसभास्तारसंस्तुतनि-
खिलवस्तुविस्तारस्तार इव तरुहरिणकुलोत्तरः उत्तर इव गुरुगाङ्गेयकर्णभू-
षणहारिनरोपचितकीर्तिसंख्यः संख्यावानिव सुरसभावमतिदक्षः दक्षिणेष्व-
क्षीणाक्षिसंमददायी द्रविडो नाम देशः । यत्र च निरन्तराक्षरामृतानन्दि-
तजगतां गवां ब्राह्मणानां च परिपालनेनामृतजीवनानां देवानां द्विजानां
चाशिषा गोत्रानन्दकोऽप्यगदः सुखेन जीवति लोकः । तथा हि ।
'मृधमास्कन्दनं संख्यम्' इत्यमरः । 'गन्धस्पर्शसंख्य-' इति तार्किकाणां पाठः ।
'गाङ्गेयः स्यात्पुमान्भीष्मे क्लीबे स्वर्णकसेरुणोः' इति । सुरसभा देवसभा । अव-
मतिरवमानः । पक्षे - 'संख्यावान्पण्डितः कविः' इत्यमरः । शोभना रसभाव-
मतयः । 'प्रमोदामोदसंमदाः' इत्यमरः । यत्रेति । नाशरहितघृतम् । पक्षे -
वर्णपीयूषम् । पीयूषाशनानां यज्ञशेषाशनानां वा । 'अमृतं यज्ञशेषे स्यात्पीयूषे
सलिले घृते । अयाचिते च मोक्षे च ना धन्वन्तरिदेवयोः ॥' इति सुधा । गोत्रः
पर्वतस्तस्यानन्दकः । अगः पर्वतस्तं द्यति खण्डयतीत्यगद इति विरोधः । कुला-
नन्दको रोगरहित इति परिहारः । गोत्रं नाम्नि कुलेऽचले' इति । 'व्याधिगदा-
मयाः' इत्यमरः । तिमिरादिसप्तकं रोगभेदः । 'ध्वान्तेऽक्षिरोगे तिमिरम्' इति