2023-09-04 09:19:04 by jayusudindra
This page has been fully proofread once and needs a second look.
छाया न्यग्रोधसाले परिमललहरी चन्दने किंशुके स-
त्पौष्पी शोभा फलश्रीरपि खलु कदलीवृक्षवाटीषु लभ्या ।
किं तैरेकैकसंपत्परिकलनचणैः सर्वसंपत्समृद्ध
क्षोणीमन्दार चूतद्रुम तव गरिमा मद्गिरामप्यभूमिः ॥१९॥
इति स्सालद्रुमस्तवनव्याजादात्मानं स्तुवन्त्या सह तत्रैव क्षणमतिष्ठत् ।
इतो देवोऽपि 'अहो किमिति वक्तव्यम्, यदियं कल्याणी मत्प्रे-
मभरं न जानाति' इति त्रिभुवनचातुर्यनिधावस्थानदोषारोपः । ज्ञात्वापिं
तूष्णीं तिष्ठतीति न तादृशो जीवः । ज्ञात्वा ज्ञात्वा वा किमिति प्रकृत-
विरुद्धालापः । 'अद्य श्वो वा सफलो भवेन्मे मनोरथः' इति तावन्निः -
सरन्ति प्राणाः कंदर्पहतस्य तदैव स्पष्टं न निवेदितमित्यधीरतालाघवम् ।
कस्मैचिन्निवेद्य सुखीभवामीति चरणलग्नकण्टकचालनरीतिः । अलमे-
तदनुरागेणेत्यरसिकता । दैवमेव शरणमिति साधारणसरणिः ।
सप्रयत्नेन भवितव्यमिति पिष्टपेषणन्यायः । मदनादीनेव शिक्षयामी-
त्यकाण्डताण्डवविधिः । एतदुभयत्रापि सममिति चातुर्याभासः । देहं
त्यजामीत्यबुधचरणानुचरणप्रसङ्गः । किं च ।
निद्रा न याति नयनं व्याधत्रस्ता मृगीव कान्तारम् ।
अचला न चित्तवृत्तिर्नौका नुन्नेव वायुना जलधौ ॥ २० ॥
रागस्तीव्रं प्रसरति सुगुणो गुणिनां यथा लोके ।
आवेगः शीघ्रतरः प्रतिभाक्रमवत्कवीन्द्राणाम् ॥ २१ ॥
छायेति । चणः समर्थः । अभूमिरस्थानम् । इतो देवोऽपीति । अकाण्ड-
ताण्डवमनवसरनर्तनम् । 'काण्डोऽस्त्री दण्डबाणार्ववर्गावसरवारिषु' इत्यमरः ।
चातुर्यवदाभासमानः । तारः कपिभेदः । तरुहरिणाः कपयः । उत्तरः श्रेष्ठः । बृह-
त्सुवर्णश्रवणाभरणाश्च हारवन्तश्च ये नरास्तैरुपचिताधिकीकृता कीर्तिगणना यस्य ।
पक्षे—उत्तरो विराटपुत्रः । द्रोणभीष्म राधेयाभरणापहारकार्जुनोपचितयशोयुद्धः ।