2023-09-04 07:23:46 by jayusudindra

This page has been fully proofread once and needs a second look.

तदिदानीम्
 
निर्यन्मारन्दधारामिलदलिपटलीगीतमाद्यत्कुरङ्गं
छायामायाभ्रनृत्यच्छिखिकुलमसकृत्कोकिलालापहृद्यम् ।
वेल्लन्मल्लीप्रसूनप्रसृमरललितामोदसंवासिताशं
नीडक्रीडद्विजालिं प्रसवभरनतं तं रसालं भजामि ॥ १७ ॥
 
इति संचिन्त्य इतस्ततः संचारितचक्षुः कामपि वनोद्देशे संचरन्तीं बाललो-
ललोलम्बाङ्गनां विलोक्य ।
 
'पुंनागगण्डतलचुम्बनलोलचेतो-
वृत्तिर्जहासि नितरां कनकाभिलाषम् ।
श्यामे भ्रमद्भ्रमरराजिमनोहरे त्व-
मा चन्द्रतारमवनौ जय जीव मुग्धे ॥ १८ ॥'
 
इति यावद्वदति तावदेव यदृच्छया कयाचन वनितया तेनैव मार्गेण
क्वापि गच्छन्त्या समाकर्ण्य आभुग्नकण्ठं कोऽयमिह धन्यो मामाशिषा
वर्धयति पृच्छामि तावदित्युपसर्प्य 'भद्रमुख, को भवान्महानुभाव इति
ज्ञातुमिच्छामि' इति तया सादरं कृताञ्जलिपुटयोक्तः साश्चर्यम् 'चपलाक्षि,
अस्याम्रतरोरावालाभरणीभव क्षणम् । श्रान्तासि । अहमपि कश्चित्पान्थः ।
कासि त्वम् । क्व यासि । किं ते पाणौ' इति तामभिधाय तयापि
तत्कालरूढपरिचयया तथास्त्विति जल्पन्त्या
 
दिति । छायैव मायाभ्रं कपटमेघः । द्विजाः पक्षिणः । ब्राह्मणा इत्यर्थान्तरम् ।
प्रसवं फलं पुष्पम् । पुत्र इत्यर्थान्तरम् । 'प्रसवो जनतानुज्ञापुत्रेषु फलपुष्पयोः '
इति । पुंनागेति । गण्डः कटः । भृङ्गचम्पकयोर्वैरमिति कविसमयः । श्यामा
नीलवर्णा इति भृङ्गीपक्षे । स्त्रीपक्षे - गण्डः कपोलः । रत्यभिलाषे सति वनिता वेश्या
स्यादतो जहासीत्युक्तम् । 'श्यामा स्त्री मुग्धयौवना' इति । भ्रमरः कामुकः ।