2023-09-04 07:14:45 by jayusudindra

This page has been fully proofread once and needs a second look.

शिल्पे च । न सुखयन्ति वीणाः प्राणाश्च । न स्पृहयति राज्याय
भोज्याय च । अपि च । अङ्गीकरोति वाघिर्यं न माधुर्यम् । संकुचिता
वाकू न शुक् । विस्मृतं चातुर्यं न कार्यम् । गता स्फूर्तिर्न चार्तिः ।
वर्धितं व्यसनं न हसनम् । क्षीणा रुक् न मनोरुक् । उपचिता बाधा
न क्षुधा । तदत्र दैवमेव शरणं मम मन्दभाग्यस्य । सत्यमाह
भगवान्मुरमथनः -
 
रिङ्गत्तरङ्गचलदम्बुजकोशनिर्य-
त्किंजल्कगन्धभरवासितवातपोताः ।
कंदर्पबाणगणभिन्नहृदः क्षते मे
क्षारस्य रीतिमधुना कलयन्ति हन्त ॥ १४ ॥
इति ।
यतः ।
 
पुण्ड्रेक्षुचापवरसंगतभृङ्गमौर्वी-
निर्यन्मरन्दविषरूषितपुष्पबाणम् ।
कामस्य सोऽथ सहते परिरम्भलग्न-
कान्ताकुचाग्रहरिचन्दनकङ्कटो सः ॥ १५ ॥
 
अस्त्वेतत् । देवं मदन इव मां मध्याह्नसमयोऽतितरां बाधते ।
 
प्रायेण तृषितोऽकर्कोऽपि सलिलं पातुमिच्छति ।
अन्यथा पुष्करस्थानं प्राप्नुयादर्यमा कुतः ॥ १६ ॥
 
'व्यसनं विपदि भ्रंशे दोषे कामजकोपजे' इत्यमरः । रुक्कान्तिः । पक्षे-रोगः ।
रिङ्गदिति । वासितं सुरभीकृतम् । पुण्ड्रेक्ष्विति । 'रसाल इक्षुस्तद्भेदाः पुण्ड्र-
कान्तारकादयः' इत्यमरः । 'उरश्छदः कङ्कटको जगरः कवचोऽस्त्रियाम्' इति च ।
प्रायेणेति । पुष्करं जलमिति चमत्कारः । आकाशमिति तत्त्वार्थः । निर्य-