2023-09-04 07:09:41 by jayusudindra

This page has been fully proofread once and needs a second look.

जलसेक इव विषमां दशां प्रापयेद्वस्त्वलाभे तूभयलोकभ्रष्टताम् । यदि
वा निषेधयामि तर्हि सद्य एव प्रणयप्रसरभङ्गः । सर्वथा नमोस्तु
धात्रे । येनायं निर्मितः स्नेहपाशः । येन वद्धः पुमान्नेशः स्वगात्राणां
चालनेऽपि । सूक्तमिदं केनचित्-
 
दीपे वा तैले वा पतति पतंगो विनश्यति क्षिप्रम् ।
अतएव भणामि सखि स्नेहो वह्रेर्न किंचिदप्यूनः ॥ १२ ॥
 
इति । 'भवतु तावत् । एनमन्यतो नयामि' इति संचिन्त्याह - 'देव
धीरप्रकृते, इतः किंचिदविदूरत एव सुवर्णमुखरी । तामनुसृत्य स्मर -
शरजर्जरितमानसमाश्वासयतु देवः । यतः ।
 
उत्फुल्लकेसरावलिविलसत्कमलालिपुण्डरीककुलम् ।
भ्राम्यच्चक्रकदम्बं तद्वनयुगलं न कस्य मोदाय ॥ १३ ॥
 
इति । तदनु श्रीनिवासोऽपि 'वयस्य मरालक, सायंतनसमयदलदिन्दी-
वरदामकोमलेन तत्कटाक्षेण विद्धस्य मम हृदये व्रीडा सुजनता गाम्भीर्यं
धैर्यमन्यत्किंचिदपि वा महत्ताव्यञ्जकं न तिष्ठति तत्किमपि सूक्तमसूक्तं
वा मा कथय । न प्रभुरस्मि मनसः' इति कथयन्साभ्यसूय इव
तूष्णींबभूव ।
तदा मरालकोऽपि 'अये वराकेणानेन मदनपिशाचेन विरहव्यथा-
गिरिशिखरस्थलीमारोपितो देवः । तथा हि । न बध्नाति रतिं तल्पे
 
इत्यमरः । अभ्रमुवल्लभमैरावतम् । पटच्चरं जीर्णवस्त्रम् । पुण्डरीका व्याघ्राः । पुरुष-
श्रेष्ठा इति यावत् । 'विधुरं तु प्रविश्लेषे' इत्यमरः । सूक्तं सुष्टुभाषितम् । दीपेति ।
स्नेह्रः प्रेमेति चमत्कारः । तैलमिति तत्त्वार्थः । उत्फुल्लेति । जलं काननं च
वनयुगलम् । केसरः किंजल्कः । चक्रमावर्तः । पक्षे वृक्षभेदः । कमलः कुरङ्गः ।
पुण्डरीको व्याघ्रः । चक्रवाकः । तदा मरालकोऽपीति । शु<flag></flag>शोकः ।