2023-08-30 14:14:40 by jayusudindra

This page has been fully proofread once and needs a second look.

ख्यातियुतः । अधरवद्रक्तरक्तः । दन्तवन्मुक्तावलीहृदयंगमः । नयनव-
द्रक्तनीलः । ललाटवत्सतिलकः । कुन्तलवच्छ्यामाधिकरुचिः । अवतं-
सवत्कलापमयः । श्रीश्रीनिवासो नाम वसुधाधिपः ।
किं च, यश्चरणश्लाघ्यं भुजं ललितांसश्रियं वक्षःस्थलीं सर्वतोमुख-
जातशोभान्वितं पादं च वहति ।
अपि च, यः पादे प्रेमास्पदं चक्षुः नितम्बे कल्याणगुणान्वितं नेत्रं
वक्षसि विपुलनयनाभियोगं च धत्ते ।
 
हरिखङ्गे च हर्षके' इति सुधा । मनोहरया संपदा भार्यया रमया च । 'श्रीर्वेष-
रचनाशोभासंपत्सरलशाखिषु । वाणीलक्ष्मीलवङ्गेषु विषे बिल्वेऽपि' इति
रत्नमाला । कलानिधिर्विद्वांश्चन्द्रश्च । 'कलनाविद्ययोः (?) शिल्पे कालमेदांश-
मात्रयोः । चन्द्रस्य षोडशे भागे मूलबद्धावलौ स्त्रियाम् ॥ कला च' इति लिङ्गा-
भट्टः । अनुरक्तेष्वनुरक्तः अतिंशोणश्च । मुक्ता असंसारिणो मौक्तिकानि च ।
रक्ता अनुरक्ता नीला देवी यस्य सः, शोणकृष्णश्च । 'नेत्रे पुनर्यद्यपि रक्तनीले'
इति भवभूतिः । 'रक्तोऽनुरक्ते नील्यादिरञ्जिते लोहिते त्रिषु' इति सुधा । तिल-
कश्चित्रके वृक्षविशेषे च प्रभावपि' इति रत्नमाला । अप्रसूताङ्गनाधिकस्पृहः
नीलवर्णेनाधिककान्तिश्च । 'पुंस्युत्तंसावतंसौ द्वौ कर्णपूरे च शेखरे' इत्यमरः ।
'कलापो भूषणे बर्हे' इति च । 'तादात्म्यार्थे विकारार्थे प्राचुर्यार्थे मयद त्रिधा'
इति तत्त्वप्रकाशिका । सर्वत्र यथोचितं लिङ्गव्यत्ययः । 'मानवा मौलितो वर्ण्यां
देवाश्चरणतः पुनः' इति कविकल्पलता । किं चेति । चरणवत्पादवच्छ्लाघ्य-
मिति चमत्कारार्थः । तत्त्वार्थपक्षे तु चेति च्छेदः । रणो युद्धम् । एवमग्रेऽपि ।
अंसश्रियम् । पक्षे ललितां सश्रियमिति च च्छेदः । मनोज्ञां सलक्ष्मीमित्यर्थः ।
सर्वतः सर्वत्र मुखवज्जाता उत्पन्ना या शोभा । पक्षे सर्वतोमुखजातं नीरजम् ।
अपि चेति । प्रेमास्पदं नेत्रमिति चमत्कारार्थः । जलास्पदं गङ्गेति तत्त्वार्थः ।
' सीता चालकनन्दा च चक्षुर्भद्रेति गङ्गानामभेदः' इति श्रीभागवतम् । एव-
मग्रेऽपि । अत्र नेत्रवाचकबहुशब्दलाभः । 'तरुमूलाक्षिवस्त्रेषु नेत्रं' इति जग-
द्धरः । विपुलनयना स्त्री । 'परित्यक्तवामलोचनः' इति कादम्बरी । 'कथंचित्प-
श्यन्तः कमलनयनामात्रं' इति पुंभावसरस्वती । 'कल्याणं हेम्नि मङ्गले' इति'