2023-09-04 06:50:23 by jayusudindra

This page has been fully proofread once and needs a second look.

तपस्याराधनं हित्वा मधुना प्राप्तविक्रियः ।
को वा न मन्दतामेति तत्रोदाहरणं मरुत् ॥ १० ॥
 
इति चिन्तयन् । 'देव, अत्र चाखण्डलतासंगता इन्द्रा इव, कनकका-
लिकामहिता दुर्जना इव, बहुलतालसच्छोभाः संगीतक्रमा इव भूभागाः ।
इत उत्तरतो नास्तबकस्तटाको लतामण्डपश्च । बहुचित्रको वृक्षपूगः
क्रीडाशैलश्च । विलसद्रुचितः पुष्पप्रकरः पक्षिनिकुरम्घं च सुखयति ।
इतः पश्चिमतो वनिताजन इव चलदलकः सप्तपर्णः । तव शत्रुरिव
सोद्वेगः पूगवृक्षः' इति वदतो मरालकस्य वचनमनाकर्ण्यैव 'मयात्र
मृगयाश्रान्तेन स्थितम् । अत्र कोऽपि नयनानन्दोऽनुभूतः । तदधुनापि
निधुवनलीलेव खञ्जरीटानां रञ्जयति लोचनलोभनीया मानसं कस्या-
श्चन चरणालक्तरसमुद्रिता भूमिरित्यालोचयन्नेव कस्मिंश्चिल्लतामण्डपे
निषसाद । मरालकस्तु 'अये, किमिदं निसर्गमधुरोऽपि देवो मनागपि
मदुक्तिं नान्तर्वर्तयति । न सस्नेहं पश्यति । न सस्मितं भाषते । न
वनभूमिमनुमोदते । न मन्दमारुतमनुकम्पते । तदत्र किं मया स्खलितं
भवेत् । भवतु तावत् । संभाषयामि । को गर्वः प्रभुपादोपजीविनाम् ।
किं शाठ्येन मित्रधर्मानुगतानाम् । कावमानगणना धनिकाराधकाना-
मित्यालोच्य पुनः प्राह — 'देव, अत्र
 
तपस्येति । तपस्या तपः । मधुना मद्येन । मन्दता मूढत्वमिति चमत्कारः । तपस्यः
फाल्गुनिकः । चैत्रेणापटुत्वम् । देवेति । अखण्डलता । पक्षे-आखण्डलत्वम् ।
सुवर्णकलहेच्छाहिताः । पक्षे - चम्पककोरकमहिताः । लता । पक्षे तालः । अस्त-
बकपक्षी न । पक्षे - गुच्छरहितो न । 'आश्चर्ये व्योम्नि किर्मीरेऽप्यालेख्ये चित्रमि-
ष्यते । गोडुम्बायामाखुपर्ण्यां चित्रा' इत्यादि लिङ्गाभट्टः । द्रौ वृक्षे चितो व्याप्तः ।
पक्षे - रुचितः कान्तितः विलसत् । अलकः कुन्तलः । पक्षे-दलं पर्गम् । 'सप्त-
पर्णो विशालत्वक्छारदो विषमच्छदः' इत्यमरः । उद्वेगो व्यथा । पक्षे क्रमुकफ-