2023-09-03 16:02:52 by jayusudindra
This page has been fully proofread once and needs a second look.
त्वत्प्रतापभयात्सूर्यो दिङ्मूढोऽभून्न चेत्कुतः ।
जेतुकामः कुवलयं पुष्करस्थानमाप्तवान् ॥ ५ ॥
अपि च ।
स्थाप्यश्चन्द्रश्च रमाचलदुर्ग इतीव वक्तुम<flag></flag>ली ।
कान्तं निरीक्ष्य भानुं मुखमुद्रां त्यजति तत्करस्पृष्टा ॥ ६ ॥
यद्वा ।
चन्द्रा<flag></flag>योर्मिथो द्वेष इति मिथ्यान्यथा कथम् ।
चन्द्रे विष्णुपदे लीने तस्य श्रीः कमलं गता ॥ ७ ॥
इति । तच्छ्रुत्वा किंचित्स्मितमुखस्थमेव प्रदेशं प्राप्तः, यत्र सा दृष्टा
मदिरेक्षणा । आगत्य च कमलचन्दनसंसर्गतिक्तसमीरसंस्पर्श वर्धितानङ्ग-
व्यथः । स्वगतम् ।
पद्मिनि किमिति क्रीडसि मधुपैर्लज्जालवोऽपि न हि किं ते ।
हर हर विस्मृत्योक्तं क्व नु लज्जा सवितृरक्तायाः ॥ ८ ॥
धिक्ते पल्लवरागं सौरभ्यं भ्रमरहृद्यतां चापि ।
पापे चन्दनलतिके जरठभुजङ्गेन परिवृता यस्मात् ॥ ९ ॥
मन्दुरा वाजिशाला । त्वत्प्रतापेति । उत्पलस्थानं विहाय कमलस्थानगम-
नाद्दि<flag></flag>ढत्वं सिध्यति । तत्त्वार्थस्तु आकाशस्थानम् । चन्द्राब्जयोरिति । विष्णु-
पदे नारायणचरणे लीने मग्ने । मुक्ते सतीति यावत् । श्रीः संपदिति चमत्कारः ।
यस्मिन्कस्मिंश्चिद्योगिनि प्रारब्धं पुण्यं पापं चानुभूय प्राप्तमोक्षे तस्योर्वरितं प्रार-
ब्वेतरत्पुण्यं सुहृदः, पापं द्विषः प्राप्नुवन्तीति सच्छास्त्रप्रक्रिया । 'सुहृदः साधु-
कृत्यां द्विषतः पापकृत्यामिति तस्मादात्मज्ञं ह्यर्चयेद्भूतिकामः' इति श्रुतिः । अत
एव द्वेषाभावः अङ्गीकार्य इति भावः । तत्त्वार्थस्तु – आकाशे । अदर्शनं प्राप्ते ।
श्रीः शोभा । तिक्तः सुरभिः । पद्मिनीति । 'पद्मिनी पद्मसंस्थाने स्त्रीविशेषे
सरोम्बुजे' इति । धिक्त इति । विटानुरागम् । मनोज्ञत्वम् । कामुकहृद्यत्वम् ।
वृद्धविटेनेत्यन्यापदेशः । तत्त्वार्थस्तु सुगमः । चारुत्वमपि सौरभ्यमिति ।