2023-09-03 15:55:34 by jayusudindra
This page has been fully proofread once and needs a second look.
तस्यां वेलायामुदितभूयिष्ठमालोक्य रविबिम्बमाह मरालकः–'वयस्य
माधव,
क्रमेण चक्रं संयोज्य भित्त्वा श्रीवासकोशकम् ।
जेतुकामः कुवलयं सूर्यस्त्वमिव निर्गतः ॥ २ ॥
अपि च ।
सिन्दूररैपि शङ्कितं च घुसृणैः स्रम्तं च काश्मीरजै-
र्विभ्रान्तं कनकोत्करैः शिथिलितं त्रस्तं कुसुम्मैरपि ।
किंचानम्य निरीक्षितं तव जगद्वन्द्यः प्रतापाङ्कुरैः
सर्पत्यद्य नभःस्थलेऽम्बुजसुहृद्भासां विलासो मुहुः ॥ ३ ॥
इतः किंचित्पश्यतु देवः ।
सत्रं कोककुलस्य हंससमितेर्दोलां प्रपाजालकं
भृङ्गाणामतनोः कलम्बनिचयं धातुः परं मन्दुराम् ।
पर्यङ्कं च वियोगिनीजनततेर्गेहं रमायाः सरो-
जालिं सत्कुरुते करैर्दिनकरः काश्मीरजन्मारुणैः ॥ ४ ॥
यिष्ठमित्युक्तम् । पूर्णोदितमित्यर्थः । क्रमेणेति कामशास्त्रोक्तक्रमेण । चक्रं चक्रवा-
कम् । श्रीनिवासकोशकं पद्मकु<flag></flag>लम् । कुवलयं पुष्पभेदः । पक्षे श्रीनिवासेति
श्रीनिवाससंबोधनम् । कोशकमर्थौघम् । 'श्रीनिवासो वृक्षमेदे पङ्कजे पीतवाससि'
'इति । 'कोशः खड्गपिधाने स्यात्कु<flag></flag>चलेऽर्थौघदिव्ययोः' इति । सिन्दूरैरिति ।
स्वर्णे पीतत्वं लोहितत्वं चेति कविसमयः । तेन रविकिरणसादृश्यं युज्यते । आन-
म्येत्यनेन प्रतापस्य भानुबिम्बादप्यूर्ध्वदेशाश्रितत्वमुक्तम् । अङ्कुरैरित्यनेन बाल्य-
एवैतादृशमहिमान्वितत्वं किं पुनः प्रागल्भ्य इति भावः । 'काश्मीरजन्माग्निशि-
खम्' इत्यमरः । घुसृणं ललाटे धार्यम् । स<flag></flag>मिति । सत्रं सदादानमिहेरितम् ।
दोला रज्जुनिर्मितमालाकारवृक्षस्कन्धादिबद्धवसन्त कालविहारसाधनीभूतद्रव्यभेदः।