2023-09-03 15:47:20 by jayusudindra
This page has been fully proofread once and needs a second look.
ततश्चान्तिपुष्करिणीयं नृसिंहजयन्तीयमिति कथ्य मानसंकल्पानां
तीर्थोपजीविनाम्, क्व मे करालवः क्व मे बृसी क्व मे कक्षपेटिकेति
जल्पतां शिष्टद्विजातीनाम्, प्रभातस्नानसमयव्यग्रेषु जनेषु वस्त्रं भाजनं वा
मुषित्वाद्यैव दीयते पणशेषमिति सांत्वय्य तन्मातरं तत्कालहृतयज्ञोपवी-
तयाचकानां चेटिकारतदरिद्रौदनिकद्विजविटानाम्, अत्रैवं पाठः अस्या-
यमर्थ इति तारतरं पठतां मासपौराणिकानाम्, मह्यं न दत्तं मह्यं न दत्त -
मित्याक्रन्दतां गर्भयाचकानाम्, जातं जातमिति वाद्यमानकरतालिकानां
कृपणास्तिकधनिकानाम्, त्यज मार्गं जल एव विस्मृता श्रीमुद्रा
हा वनितोपरि पतसि वराकेण मार्गो दूषितः प्रतिपालय मदागमनं
विज्ञातेव ते शिष्टता इत्यादिप्रकारेण वदतां जनानां भगवत्याः सुव-
र्णमुखर्या उभयतटोज्जृम्भमाणकोलाहलेनोद्बुद्धः यथाविधि स्नात्वा
गिरिसानुग्रहत्वं च वसुमत्ता च तादृशी ।
यस्य मैत्री जगत्सारा न वन्द्यः कस्य वा रविः ॥ १ ॥
इति मनस्यालोच्य नमस्याकर्मीकृततपनमण्डलो राजकन्यावियोगदू-
यमानमनाः केनचिन्मरालकनामकेन नर्मसुहृदा सह यद्यत्र हारितं तत्तत्रैव
मृभ्यमितीव तमेव वनोद्देशमुपाजगाम श्रीनिवासः ।
च दन्त्योऽपि' इत्यूष्मविवेकः । 'उदयः पर्वतोन्नत्योः' इति । भूमा पूर्णः । तत-
श्चेति । अन्तिपुष्करिणी तिथिभेदः । करे धार्या आलवः करालवः । 'कर्कर्या-
लुर्गलन्तिका' इत्यमरः । 'गिण्डी' इति भाषा । 'कक्षः स्मृतो भुजामूले' इति । 'भ-
रण्यं भरणं मूल्यं निर्वेशः पण इत्यपि' इत्यमरः । 'सूदा औदनिका गुणाः' इति च
तारतरमुच्चैः । विधिमनतिक्रम्य यथाविधि । विधिः प्रकारः । गिरीति । गिरि
वाचि अनुग्रहसहितत्वमिति चमत्कारः । पर्वतप्रस्थसंबन्धि ग्रहत्वमिति तत्त्वार्थः ।
देवभेदेऽनले रश्मौ वसू रत्ने घने वसु' इति । 'तीक्ष्णरश्मौ च सुहृदि मित्रं स्याच्छ-
त्रुशात्रवौ' इति । यस्यां वेलायाम् 'नेक्षेदुद्यन्तमादित्यम्' इति स्मृतेः उदितभू-