2023-09-03 15:40:37 by jayusudindra
This page has been fully proofread once and needs a second look.
ग्रीवं गायत्सु मिलिन्देषु तदेकशरणेषु द्विजेषु, पुनस्तदुदयमाकाङ्क्षमाणे-
ष्विव तपस्वितां प्राप्तेषु चकोरेषु, गतेऽपि स्वामिनि धैर्यत्यागो नोचित
इति निश्चलप्रकृतितयेव न द्रवत्सु चन्द्रकान्तमणिषु, विरामसमयोज्जृ-
म्भमाणकोकशोकानलप्रभापटलैरिवारुणदेहकान्तिजालकैः शोणीकृतासु
दशदिशासु, पद्मिनीनामयं विकासकाल इति ज्ञापयन्तीष्विव विकस-
न्तीषु कमलिनीषु, उद्धाटयत कपाटं परिष्कुरुत वीथिकां बध्नीत वन्द-
नमालिकां सत्कुरुत शरीराणि किं न जानीथायमयमागत एव भगवां-
श्चित्रभानुः पुरस्कृतस्वभानुस्तं संतोषयतेति प्रकम्पितवेत्राग्रेषु स्वाधि-
कारानुरूपमाचरत्सु भटेष्विव तत्रतत्र संचरत्सु प्राभातिकदरफुल्लकमलसं-
सर्गकषायपवमानपोतेषु; अभ्युद्यतपुण्डरीकश्रीश्चामरश्लाघ्यविभवः परमु-
दितमत्तसारङ्गसहस्रपत्रः पूर्वतनं दोषाकरं राजानं निर्जित्य अपर इव
भूपः शूराख्यातिरमणीयः प्राप्तमहोदयः परिष्कृतानन्तः सकलजगत्सुक -
र्मपरिपाक इव मूर्तिमांस्त्रयीमूर्तिस्तेजोभूमा पूर्वदिग्लावण्यसीमा शनैः
शनैरुल्ललास ।
याधिकम्' इति श्रीभागवतम् । 'पक्षः सहायगरुदन्तिकसाध्यभित्तिमित्रेषु चुल्लिवि-
वरे नृपकुञ्जरे च' इति रत्नमाला । एकोऽर्थः । राजतया चन्द्रतया हंसतया सूर्य-
तया च । चन्द्रपक्षः सूर्यपक्ष इति पक्षद्वयसमाना इत्यपरोऽर्थः । राजहंसाः पक्षिणो
गरुद्ध्वयसमाना इत्यन्योऽर्थः । 'राजहंसास्तु ते चञ्चुचरणैर्लोहितैः सिताः' इत्यमरः ।
'तपस्वी तापसे चानुकम्प्ये च' इति । निश्चयप्रकृतयः सधैर्यमन्त्रिणः । न द्रवत्सु
न पलायत्सु इति च । तत्त्वार्थस्तु जडस्वभावात्त्यक्तद्रवीभावेषु । 'प्रकृतिर्गुणसाम्ये
स्यादमात्यादिस्वभावयोः' इति । दीपादेर्विरामसमये प्रकाशाधिक्यं दृष्टम् । पद्मिनी-
जातिस्त्रीणां प्रातःकाले सुरतेच्छेति कविसमयः । 'वन्दनमाला तु तोरणं परिकी-
र्तितम्' इति । चित्रभानुः सुभानुश्च संवत्सरभेद इति चमत्कारः । सूर्यः सुकिरणः
इति तत्त्वार्थः । 'कटुतिक्तकषायास्तु सौरभ्ये परिकीर्तिताः' । अमराः । अनन्त-
माकाशमिति तत्त्वार्थः । 'चमत्कारस्तु श्वेतं छत्रम्' । चामरः । पत्रं वाहनम् । अ-
नन्ता भूमिरिति । 'पुण्डरीकं सिताम्भोजम्' इत्यमरः । 'सुभटे शरः सूर्ये