2023-09-03 15:23:48 by jayusudindra

This page has been fully proofread once and needs a second look.

नायां तस्यां देवे श्रीनिवासेऽपि उन्मत्तकेन मदनेन विस्मृतवाच्या
वाच्यविचारे 'अयि सुन्दराङ्गि राजसुते,
 
वचसा मा कुरु मुग्धे कुरु रूपेणैव रतितिरस्कारम् ।
कठिना कुचयुगली ते भवतु सरोजाक्षि मानसं मास्तु ॥ २७॥
 
इति यावद्वदति तावदेव काचिन्नारायणपुराज्जरद्दासी राजाङ्गनाप्रेरितागत्य
'भर्तृदारिके, देवी धराज्ञापयति पुष्पावचयायागताया भवत्याः का खलु
वेला जाता । महाराजः प्रतिपालयति तवागमनमभ्यवहारार्थी । तदा -
गच्छ शीघ्रम् । यामो गृहम् ।' इत्युक्तवती ।
ततः पद्मावती ससखीकदम्बा तरलतरतारया दृशा आवृत्यावृत्य
सव्याजं पश्यन्ती वनात्प्रस्थिता ।
भगवानपि तत्कटाक्षार्धचन्द्रद्व्रणितहृदयः किंचिद्दूयमानेन मनसा वा-
तोज्जीविनीमिव पश्चादेवोपगन्तुमिच्छन्तीं चेतोवृत्तिं बलादाकृष्य सुन्द
इव मारीचनन्दने बधिर इव संज्ञाव्यवहारशालिनि कश्यप इवोल्लसन्म-
रीचौ ऐरावण इव निजकरोद्भासितपुष्करे धर्मकालाध्वनीन इव कामि-
तच्छाये भगवति चित्रभानौ चरमाचलशिखरमारोहति यथास्थानमा गत्य
विसृज्य किरातचक्रं स्वामिसरः पुण्यजलेषु अक्रमकृतसंध्यावन्दनाद्यवश्य-
व्यापारः कृताकारगुप्तिरेव बकुलमालाकल्पितपुष्पशयने निविष्टः ।
 
चित्रेति । चित्रोऽद्भुतः करवालः खङ्गो यस्याः । अर्धचन्द्रो बाणभेदः । चन्द्र-
हासः खङ्गः । कुन्त आयुधभेदः । मनश्चेतः । जातभयमिति चमत्कारः । तत्त्वा-
र्थस्तु - चित्र ऊरुः करः वालाश्च यस्याः । मनोजातभयं मदनभयमिति । वसि-
ष्ठकलत्रमरुन्धतीत्युपहासः । वचसेति । रतिर्निधुवनम् । पक्षे - मदनभार्या ।
प्रतिपालयति प्रतीक्षते । वातोज्जीविनी 'वावडी' इति भाषा । सुन्द इवेति ।
मारीचो मरीचिपुत्रः कश्यपः । पक्षे – सुन्दो दैत्यभेदः । मारीचस्तु तत्पुत्रः ।
'संज्ञा स्यात्सूर्यभार्यायां गायत्र्यां चैव नामनि । चेतनायां च हस्ताध्यैः सूचनायां