2023-09-03 15:16:38 by jayusudindra
This page has been fully proofread once and needs a second look.
तदाकर्ण्य स्तोकं हसति सखीवर्गे 'अलमलं चपलभाषणैः' इति
अलीककोपकलुषितायां तर्जयन्त्यां राजसुतायां देवे श्रीनिवासेऽपि
'कल्याणीयमेतस्या उक्तिरमृतासारमाधुरीसोदरी राजसुता वयस्याया
आश्वासयति मदनमहाभुजङ्गचुम्बितस्य मे मानसम् । अयमयं मिलितोऽs -
स्माकं वागवसरः । अत एवं वक्तव्यं मदनमहाग्रहग्रस्तस्य संबद्धासंबद्ध-
कथने को विधिः को निषेधः' इति निश्चित्य 'अयि राजसुतासखि,
किमियमबलेति मत्वा त्रासयसि । सा चित्रोरुकरवाला त्वदुक्तमयस्या-
भूमिर्विविधायुधपरिष्कृता च । तथा हि । अस्याः कुचश्चक्रश्रियं
वहति । ललाटमण्डलमर्धचन्द्रसंपदं धत्ते । चन्द्रहासशोभां कलयति
वदनम् । कुन्तलसल्लक्ष्मीं स्वीकरोति वेणिका । तदलमेवंविधभाषणैः ।
एवं स्थितेऽपि यदि ते भर्तृदारिकाया मनोजातभयं तदहं क्षणादेव
परिहर्तुं शक्तः' इति वदति काचित्सखी तां बभाण - अयि मदन -
कलिके, श्रुतं किलैतस्य किरातचक्रवर्तिनो भाषितम् । तन्मूलं भवति
किल । यद्दत्तस्त्वयास्य वागवकाशः । दत्तान्तराणां पुरुषाणामेतादृशो
वाक्प्रपञ्चो दृश्यते । तदसंबद्धलापिनी त्वमेवात्र तिष्ठ । वयमेता भर्तृ-
दारिकामादाय भवनं गच्छामः । यत्त्वं कुमारीजनविरुद्धाचारप्रवृत्तासि ।
सत्यपि अनुरागे पश्यति यूनि नावेक्षणम् । उद्भिन्नेऽपि रोमकुलेऽव-
हित्था मार्तिकशकलेन हन्तुमिच्छति अभिमतेऽपि तरुणे मनोभावाप्रक-
टनमित्यादि कुलकन्यालक्षणमिति ।
एवं वदन्त्यां तस्यां सत्यमाह प्रियसखीति नन्दिततद्वाचि राजपुत्र्यां
सापि किंचित्कुपितेवाह — 'अयि शृङ्गारमञ्जरि, सुचरित्रविस्मापितव-
सिष्ठकलत्रे, अपराद्धं मया । हितासि त्वं भर्तृदारिकायाः । एतत्फलम-
चिरादेवानुभवन्तीं भर्तृदारिकां द्रष्टुमिच्छसि ।' इत्युक्त्वा च विरतवच