2023-09-03 15:11:44 by jayusudindra
This page has been fully proofread once and needs a second look.
मन्यस्याः करकमलान्मां च तं च मुहुर्मुहुः पर्यायव्यावृतकंधरं पश्यन्त्या
आच्छिद्य निगूह्य च चित्रपटं आकुञ्चितभ्रुंनिर्भर्त्सितमिव किमपि उप-
दिष्टम् । अपि नाम दाहशक्तिरुत्पद्येत चन्द्रिकायाम् । कदाचिदपि वा
देवर्षेर्मन्त्रजपसनाथाद्वदनारविन्दान्निः सरेदलीकं वचः । कथमस्थानसक्ता
भवेन्मच्चित्तवृत्तिः । कथमदन्यभोग्य वस्तुन्यप्येतादृशलावण्यसर्वखं
स्थापयेद्वेधाः । एतस्या गुणाकर्णनेन श्रवणानन्द इव स्पर्शेन हस्तानन्दो
नासीदिति वामः पन्थाः । भगवन्कुसुमायुध, मा जनय क्षणमुद्वेगम् ।
तावन्निर्वापयामि पूर्णचन्द्रदर्शनसंतापितं नेत्रयुगलं प्रत्यङ्गदर्शनेना स्मिला-
वण्यसुधासरसि मुखजितचन्द्रमसि कान्तितिरस्कृतकाञ्चनमहसि कुच-
तुलितचक्रवाकवयसि हृतमन्मनसि अभिजातकन्यामणौ । अथ वा
मकरध्वजेन दत्तदर्शनावसरस्यापि आनन्दबाष्पकल्या निरुद्धं स्वल्वालो -
कनसामर्थ्यम् । अस्त्वेतदपि । कथं संभाषयाम्यलब्धवागवसरः । सूक्त -
मुक्तं केनचित् 'शास्त्रं सुनिश्चितधियापि विचारणीयम्' इति । यतः
व्यवहित्वाद्बहोः कालस्य विस्मृता खलु सा व्रजयुवतिजनवशीकरण-
कला । इत्येवं चिन्तयति श्रीनिवासे काचिद्राजपुत्रीसखी कंचन वन्य-
मतङ्गजं विलोक्य प्राह – 'अयि भर्तृदारिके, पश्यैनं मत्तदन्तावलम् ।
अयं खलु नारदप्रोक्तो गिरिगहनचारी पुंनागो यदि त्वयि करं प्रसार-
त्येत्कस्ते शरणम् । अथ वा त्वमपि लसच्चूलीवासिता । नात्र तव भय-
लेश: । तदस्तु तोषायैव तावदयं शिलीमुखो मदनान्निर्गत्य व्याकुल-
व्यति त्वां तत्र को वा उपायः' इति ।
वामो वक्रः । अयि भर्तृदारिके इति । पुंनागः पुरुषगजः । करः शुण्डा ।
"कर्णमूलं तु चूलिका' इत्यमरः । वासिता करिणी । शिलीमुखो भृङ्गः । मदनो
वृक्ष इति चमत्कारः । तत्त्वार्थस्तु पुरुषश्रेष्ठः पाणिः वेणी वनिता बाणो मन्मथः ।