2023-09-02 07:17:36 by jayusudindra
This page has been fully proofread once and needs a second look.
तथाहि । अब्जशब्दवाच्यस्य चन्द्रस्य गुणो नेत्रयोः । सुरागस्य
पारिजातस्य कुचयोः । जैवातृकस्य धन्वन्तरेर्मुखे । दिव्यनागस्यैरावतस्य
वेण्याम् । मधुनो वारुण्या अधरे । रम्भाया अप्सरसां ऊरुभागे । गौर-
स्योच्चैःश्रवसो वर्णे । तिष्ठत्वेतत् ।
किमेषा कंदर्पशरशरव्यतां प्रापिता केनापि भवेत् । आः, कः
संदेहः । येनास्याः शरच्चन्द्रदशां प्रापिते गण्डमण्डले सखीजनरचितो
मृगमदपत्रभङ्गः कुरङ्गभ्रमं जनयति । स हि पाण्डिमेवेत्थं स्फुटं जल्पति ।
किमनया प्रकृतानुपयुक्तया चिन्तया । प्रथमं तावदेतद्विचारणीयम् ।
किमस्यामहमिव मय्येषानुरक्ता न वेति । अथ वा किं तदद्यापि न
निश्चीयते । कथमन्यथा कूणितत्रिभागेण चक्षुषा सव्याजं मामियं
पश्येत् । निरुद्धोऽपि कोऽपि विकारः कथमस्याः प्रसरेदङ्गेषु । स्वेद लवमुक्ताजालकैरलंक्रियेताभिनवस्फटिकभित्तिधवला कपोलपाली । कथ-
मुत्तम्भयेदुत्तरं वासः रोमहर्षोद्भेदः । कथं नर्तयेद्दक्षिणानिल इव लता मूरुकम्पः । कथं शिथिलीभवेन्नीवीबन्धः । कथं भुवमालिखेच्चरणनख-
मणिः । कथं प्रस्फुरेत्प्राक्पुण्यवाराशितरङ्गबन्धुरं मम दक्षिणं चक्षुः ।
कथं यानि भैष्मीहरणकाले शुभानि निमित्तानि तान्येवेदानीं पश्यामि ।
कथं दूरादेव मां विलोक्य चिरमालोच्य सभ्रूभङ्गमनेन सखीकदम्वेन
परस्परं मन्दं मन्दं समन्दहासमालपितम् । कथमनया नीलोत्पलदला-
वतंसया श्रितपोतचूतालवालनिकटदेशया वनितया सकङ्कणझणत्कार-
धन्वन्तरी शङ्खे पद्मेन्दुनिलयेषु च इति लिङ्गाभट्टः । सुराणामगो वृक्षः । पक्षे-
पर्वतः । 'शैलवृक्षौ नगावगौ' इत्यमरः । 'जैवातृकः कर्षकेन्द्वोर्वैद्ये नायुष्मति त्रिषु'
इति रत्नमाला । वारुणी मद्यम् । 'मधु मद्ये पुष्परसे क्षौद्रेऽपि ' इत्यमरः । किंमे-
षेति । श्रवणं हस्तश्च नक्षत्रभेद इति चमत्कारः । श्रोत्रं पाणिरिति तत्त्वार्थः ।