2023-08-30 14:03:14 by jayusudindra

This page has been fully proofread once and needs a second look.

कविता भुवि तावदेव वन्ध्या भविता यावदयं न वर्ण्यते हि ।
तरसा सुरसालवद्वदान्यः सरलालापवशंवदो मुकुन्दः ॥ ३ ॥
 
उग्रोऽप्यसत्कृतार्यः कीर्तिविहीनोऽपि पङ्कयुक्तो यः ।
मन्दोऽप्यशनिकठोरो दुर्जनसंघस्तनोतु मयि करुणाम् ॥ ४ ॥
 
रसमयजनतोल्लसितं मध्येसभमत्र शब्दजालं मे ।
सद्गुणसंपद्दर्शकमथ भूयाद्वृत्तशास्त्रवत्सततम् ॥ ५ ॥
 
विजयी भवतु । यस्तु स्वस्यैव चरणवत्कमलोल्लासं दधानः । जङ्घा -
वच्छरधिगम्भीरः । उदरवद्बलिविभङ्गशाली । नाभिवदात्मभूजनननिदा-
नपद्मोपगूढः । भुजवत्सद्वृत्तशोभितः । करवत्सच्चक्रनन्दकः । वक्षःस्थल-
वत्कान्तया श्रियोल्लसितः । कण्ठवत्सन्मालालंकृतः । मुखवत्कलानिधि -
 
कयोः' इति हैमः ॥ २ ॥ कवितेति । सुरसालः कल्पवृक्षः। वदान्यो दानशौण्डः ।
वशंवदः स्वाधीनः ॥ ३ ॥ उग्रोऽपीति । अत्र विरोधस्त्वर्थतः । उग्रः शिवः ।
आर्या दाक्षायणीति विरोधः । क्रूरः । वर्याः इति परिहारः । एवमग्रेऽपि ।
'कीर्तिः पङ्के यशस्यपि' इति विश्वः । 'पङ्केऽस्त्री कर्दमे पापे' इति हैमः । मन्दः
शनिः । अशनिः शनिभिज्ञः । पक्षे निर्भाग्यः दम्भोलिरिति । 'मन्दोऽतीक्ष्णे
च मूर्खे च स्वैरे चाभाग्यरोगिणोः । अल्पे च त्रिषु पुंसि स्याद्धस्तिजात्यन्तरे
शनौ ॥ इति सुधा ॥ ४ ॥ रसमयेति । रसमयी च सा जनता च रसमय-
जनता । पक्षे रगणादि तगणान्ताः सप्तगणाः । मध्येसभं सभामध्ये । पक्षे भग-
णेन सहितम् ॥ ५ ॥ विजयी भवत्विति । स्वस्येति सर्वत्र संबध्यते ।
कमला रमा क्लीबे पद्मं च । एवमग्रेऽपि । 'कमलं सलिले ताम्रे जलजे व्योम्नि
भूषणे । मृगमेदे तु कमलः कमला श्रीवरस्त्रियोः ॥ इति सुधा । शरधिर्जल-
धिस्तूणीरश्च । 'बलिस्त्रिबलिदैत्ययोः' इति जगद्धरः । 'भङ्गस्तरङ्गभेदे च रुग्विशेषे
पराजये । कौटिल्ये भयविच्छित्त्योः' इति हैमः । आत्मभूर्मदनो ब्रह्मा च ।
पद्मा रमा कमलं च पद्मम् । 'वृत्तं पद्ये चरित्रे त्रिष्वतीते दृढनिस्तले' इत्यमरः ।
'वर्तुलं निस्तलं वृत्तं' इति च । 'चक्रः कोके पुमान्क्लीबं व्रजे सैन्यरथाङ्गयोः ।
राष्ट्रे दन्तान्तरे कुम्भकारोपकरणास्त्रयोः ॥ जलावर्तेऽपि ' इति मेदिनी । 'नन्दको: