2023-09-02 07:10:43 by jayusudindra

This page has been fully proofread once and needs a second look.

प्रियं बधान । कोमले मालति, पथि कण्टकीभवत्पुंनागनेत्रमुत्पाटय ।
ललितसुमांसे, इत एहि । गृहीतराजीवजीवने, कृतकृत्यासि । उत्पला-
भिलाषिणि, रक्तं मा त्यज । विशालनेत्रे, त्वचं दलय कदलीनाम् ।
प्रमादशीले, कोलम्बकं च गृहाण' इति मृगयामिव वनविहारलीला-
मनुभवन्तीभिः सवयोविलासाभिः सखीभिः परिवारितां विलोक्य तन्नि-
कट एव स्थापिततुरङ्गश्चिन्तयामास ।
अये इमामेवाह नारदः । तथा हि । अस्या नागसदृशी वेणिका,
न कुचमण्डली । अगुरुविशेषकानन्ददायि ललाटमण्डलम्, न चरि-
त्रम् । अञ्जनाञ्चिता नेत्रद्वयी, न मतिः । पल्लवप्रणयिन्यधरच्छविः, न
स्पृहा । अतिलसत्सुमनोहारिणी कुचद्वयी, न नासा । नक्षत्रेशमनोहरं
मुखम्, न रूपम् । अरम्भायमानं वयः, नोरुयुग्मम् । कुवलयमनोज्ञं
जघनम्, न करद्वन्द्वम् । नगजानुकारी गुणः, न गतिक्रमः । अस्त्वे-
तत् । केयं भवेत् । प्रायेण चन्द्रधन्वन्तरिकल्पपादपादीनां सहोदरी
रमेव क्षीरपारावारादेवोत्पन्ना । अन्यथा कथं तेषां गुणगणोऽस्याम् ।
 
पुंनागतरुमूलम् । पक्षे – पुरुषगजनेत्रम् मनोज्ञकुसुमस्कन्धे । पक्षे
मञ्जुशोभनमांसे । राजीवं पद्मम । जीवनमुदकम् । पक्षे - मृगप्राणः ।
उत्पलमिन्दीवरम् । रक्तं रक्तोत्पलमिति प्रकरणादर्थः । पक्षे उत्कृष्टमांसम् ।
शोणितम् । 'रम्भावृक्षेऽपि कदली पताकामृगभेदयोः' इति मेदिनी । कोलम्बकं
वीणाङ्गभेदम् । 'कोलम्बकस्तु कायोऽस्या' इत्यमरः । पक्षे–कोलं वराहम् । बकं
पक्षिभेदं च । अये इमामेवेति । नागः सर्पः । अगः पर्वतः । 'कालागुर्व-
गुरुः स्यात्' इत्यमरः । विशेषकं तिलकम् । पक्षे — गुरूणामधिकानन्ददायि ।
अञ्जनम् । दोषः । पल्लवः षिङ्गः । अत्यन्तशोभमानं कुसुमैः । मालिनी । पक्षे
तिलसत्कुसुमवन्मनोहारिणी । क्षत्रेशो राजा । अरमलम् । अत्यन्तमित्यर्थः ।
पक्षे - रम्भासमानमेव । कुवलयं भूमण्डलम् । तादृक्पृथ्विति भावः । पक्षे-
कुत्सितकरभूषणम् । नगजा पार्वती । पक्षे गजः । केयं भवेदिति । 'अब्जो