2023-09-02 07:04:26 by jayusudindra
This page has been fully proofread once and needs a second look.
तदैव सोऽपि द्विरदमणिरनणीयसा भयेन दुद्रुवे दूरं कराग्रलग्नशरः ।
पुष्कराग्रे पतन्रेजे श्रीमान्कृष्णशिलीमुखः ।
चित्रं चित्रमयं मूढः पुंनागो द्रवति स्म सः ॥ २४ ॥
स्थाने खलु मातङ्गजातेः कृष्णविमुखभावः । देवोऽपि विहाय
किरातचक्रं तं गजमनुससार । सोऽपि तस्यामवस्थायां धीरधीरसंचारो
वासितावशीकरणविदग्धः शृङ्गारशाली चरमोत्तुङ्गस्तननास्तलीलः श्यामानां
सुन्दरीणां महिलानां गणैः परिवृतायां कस्यांचिद्भूभृद्भुवि निपपात गजः
कटाक्षश्च श्रीनिवासस्य । ततश्चेयमद्भुता व्यक्तिर्दृष्टा ।
सुशङ्खचक्राङ्कितपाणिशोभा यात्रासमुद्वेजितराजहंसा ।
लसद्रसोद्भासिपयोधरश्रीर्नूनं रमायाः सहचारिणी स्यात् ॥२५॥
इति निश्चित्य संजातसात्त्विकभावः कथंकथमपि वारामाभिमुखी -
भूय ययौ दन्तावल: श्रीनिवासभूपालश्च ।
तदनु भगवांस्तां राजपुत्रीम् 'अयि सुमते, लोलम्बकं पश्य । उन्मा-
दिनि मदनकलिके, पुण्डरीककुलं खण्डय । चपले, मल्लिकासरं महिषी-
बाणः । पुष्कराग्र इति । पुष्करं कमलम् । कृष्णशिलीमुखो नीलभृङ्गः । पुंनागो
वृक्षभेदः । इति चमत्कारः । तत्त्वार्थस्तु – करिहस्ताग्रम् । वसुदेवशरः । पुरुष-
गजः । 'युक्ते द्वे सांप्रतं स्थाने' इत्यमरः । मातङ्गश्चण्डालः । पक्षे करी। सोऽपीति ।
'वासिता करिणीनार्योः' इति रत्नमाला । 'रसे नाट्ये च शृङ्गारः करिमण्डन एव च'
इति विश्वः । चरमं पश्चिमम् । उत्तुङ्गं यत्स्तननं गर्जनं तेनारतलीलः । पक्षे – चेति
भिन्नं पदम् । रमोत्तुङ्गस्तनथोरस्ता लीला नेति नसमासः । श्यामादित्रयं वृक्षभेदः ।
भूभृद्भूः पर्वतभूमिः । पक्षे – राजपुत्री । अन्यत्सुगमम् । शङ्खचक्रं वलयसमूहः । रमा
सहचारिणीति व्यक्तिविशेषणम् । नारायण इत्यर्थः । पक्षे – रमा सखी । मायासी-
तावतारभूतेति भावः । आराम उपवनम् । पक्षे - रामा स्त्री । तदन्विति ।
लोलम्बकं भृङ्गमिति वनविहारलीलापक्षे । मृगयापक्षे–लोलं चपलं वक्रं पक्षि-
भेदम् । मल्लिकाहारम् । राजभार्याप्रियम् । पक्षे— सैरिभीप्रियं कासरं सैरिभम् ।
मल्लीति संबोधनम् । 'सूच्यग्रे क्षुद्रशत्रौ च रोमहर्षे च कण्टकः' इत्यमरः ।