2023-09-02 06:55:30 by jayusudindra
This page has been fully proofread once and needs a second look.
नाकृतिमपि अनुपमाकृतिं कालमपि गिरीशाकारं गरुडमिव पक्षचरं
सुकविवाग्विलासमिव परिणतं शेषमिव सदानन्तं विलासिनीजनमिव
भ्रमरचुम्बितकपोलमण्डलं मत्तदन्तावलमालोक्य अर्जुनबाहुसहस्रनिरुद्ध -
वनगजमदमलिननर्मदाप्रवाहैरिव सहसानिरुद्धगतिप्रसरैस्तद्दर्शनत्यक्तभल्लै-
भिल्लमलै : 'देव, इयं न मृषा किंवदन्ती मारीचनामा राक्षसः सारङ्ग -
रूपेण मुनिहिंसनाय संचरतीति स सारङ्गो न मृगः किं तु महामृग
इति ज्ञातम् । अथवा गजासुर एवायं उत वा कुवलयापीड: देवेनापि
ज्ञात एव स एव वां न विद्मः यदत्रैव कोऽपि पर्वताकारः' इति निवे-
दिते किंचिद्धसन् 'आः किं भणत मूढाः, निरर्गलभुजबलप्रसारेषु
रामश्रीकण्ठवासुदेवेषु अचलोद्भूतिभार्येषु पार्श्वस्थितसुग्रीवेषु जयत्सु
का कथा तादृशानां पापानाम् । तिष्ठत्वेतत् । करिकीटः कश्चिन्मर्तु-
मिच्छति वराकः । तन्निःसरत मद्बाणपातभुवः' इति वदन्नेव बाणं मुमोच ।
युक्तं शरस्तु पतितो यस्माद्गुणविच्युतो बभूव किल ।
चित्रमिदं यत्त्यक्तः श्रीपतिना मार्गणो वदान्येन ॥ २३ ॥
मृत्यौ महाकाले समये यमकृष्णयोः' इति सुधा । 'तिर्यग्दन्तप्रहारस्तु गजः परि-
णतो मतः' इति हलायुधः । पक्षे रोगभेदः । तं प्रसिद्धम् । दानसहितं सदा-
नम् । पक्षे 'शेषोऽनन्तः' इत्यमरः । 'भ्रमरः कामुके भृङ्गे ललाटालकयोरपि
इति विश्वः । अर्जुनः कार्तवीर्यः । महामृगो गजः । 'महामृगः पुष्करि पद्मपीलवः'
इति हारावली । अचलाया भूम्याः सकाशात् उत् उत्कृष्टा भूतिरुत्पत्तिर्यस्याः
सा सीता । पक्षे—पर्वतोत्पन्ना पार्वती । पक्षे–अचले उद्भूतिमे उत्कृष्टैश्वर्य-
कान्ती ताभ्यामित्यर्थः । 'भा छविः' इत्यमरः । सुग्रीवः कपिभेदः । पक्षे-
सुग्रीवा पार्वती । पक्षे—अश्वभेदः । युक्तमिति । पतितो भ्रष्टः । मार्गणो
याचकः । वदान्यो दाता । श्रीः संपत् । इति चमत्कारः । तत्त्वार्थस्तु मार्गणो