2023-09-02 06:31:44 by jayusudindra

This page has been fully proofread once and needs a second look.

नष्टपत्राः पक्षिणो वनलताश्च मृदितद्विजा वृक्षाः वनगजाश्च नाशितश-
म्बराः वनभुवस्तटाकाश्च छिन्नपुष्कराः करिष्यः पुष्करिण्यश्च उत्पाटि-
तनेत्रा नगा नागाश्च आकृष्टजीवाश्चापा महिषाश्च खण्डितस्कन्धास्तरवो
व्याघ्राश्च बभूवुः ।
स च मृगयाव्यापारो रावण इव नलकूबरं दूषितरम्भं धर्मकालदिवस
इव सरः अपुण्डरीकं, प्रभातकाल इव नभः अऋक्षं, कालीकरवाल इव
भूतलममहिषं, युधिष्ठिर इव भारतमशल्यमरण्यं चकार । किं बहुना ।
 
संजातसंभ्रमभरैर्वनदेवतानां
वृन्दैरमन्दभयकम्पितमानसैर्यः ।
आकर्णितश्चकितसिन्धुरसिंहकोलः
कोलाहलोऽथ मृगयाजनकण्ठजातः ॥ २१ ॥
 
मृदितपृथुलकुचकुम्भा खण्डितरम्यद्विजच्छदा तान्ता ।
आयासिततनुलतिका रतान्तलीलां बभार वनभूमिः ॥ २२ ॥
 
अत्रान्तरे । गजमपि कुम्भोद्भासितं नीलमपि केसरिद्वेषिणं अञ्ज-
 
मृगदैत्यप्रभेदयोः' इति सुधा । 'पुष्करं द्वीपतीर्थाहिखगराजौषधान्तरे । तूर्या-
स्येऽसिफले काण्डे शुण्डाग्रे खे जलेऽम्बुजे ॥' इति हैमः । 'मौर्वी
जीवा गुणो ज्या'
इति धनंजयः । 'देहप्रकाण्डयोरंसे सैन्यभागसमूहयोः । समीहानृपयोः स्कन्धः '
इति लिङ्गाभट्टः । स च मृगयेति । कुबेरपुत्रासक्तां रम्भां बलाद्रावणो जग्रा-
हेति श्रीरामायणम् । 'व्याघ्रदिग्गजभैषज्यसितच्छत्रसिताम्बुजे । कोषकृज्जन्तुभेदे
च' इति लिङ्गाभट्टः । ऋक्षो भल्लूकः । पक्षे — क्लीबे नक्षत्रम् । संजातेति । सिन्धुरो-
गजः । मृदितेति । लकुचः कुम्भश्च वृक्षभेदः । द्विजच्छदः पक्षिगरुत् । पक्षे
रदनच्छद ओष्ठः । तनुर्लता कुशलता । पक्षे – देहलता । अत्रान्तर इति ।
गजकुम्भौ कपिराक्षसौ नीलकेसरिणौ । अञ्जना अनुपमा च करिणीभेदः । कालो
यमः गिरिशः शिव इति विरोधः । परिहारस्तु अञ्जनं नेत्रलेपनद्रव्यम् । 'कालो