2023-09-02 06:24:07 by jayusudindra
This page has been fully proofread once and needs a second look.
पुष्पसदृशं वालिनमिव सुग्रीवपरिपन्थिनं मदनमिव मानससंभवं प्रथमम-
श्वकुलेषु द्वितीयमुच्चैःश्रवसा तृतीयं वातगरुडयोः अदृष्टवडवाननमपि
राजनन्दनं नीलं कर्णे श्वेतं मुखे संपातिनं गमने हयमारुह्य विपिनम-
यासीत् ।
ततश्च केचन किराता भग्नकीचका भीमाः, शल्यान्दारयन्तो धर्म-
राजाः ,
शिखण्डिविरोधिनो भीष्माः, द्रोणपक्षघराश्च शृगालभयंकराः
कृष्णाः नागत्रासकाश्च, पुण्डरीकद्वेषिणो दोषाकराः पथिकापकारिणश्च,
शूलहस्ता महाकाला उग्राश्च, कानन रुरुधुः । तदा तु केचन जरासन्धा
इव वृकोदरं गदया ताडयन्तः केचन कर्णा इव शक्त्यार्जुनमुन्मूलयितु-
मिच्छन्तः केचन रुद्रा इव गजाञ्शूलेन दारयन्तः केचन कवय इव
प्रासेन नानाशुकवीनुद्वेजयन्तश्चेरुः ।
किं च । खङ्गी खङ्गिनं कञ्चुकी कञ्चुकिनं चक्री चक्रिणमच्छभल्लो-
ऽच्छमल्लं रक्ताक्षो रक्ताक्षं जघान । तदनु भग्नाः कुम्भाः कुम्भिकुम्भाश्च
च्यते ॥' इति लिङ्गाभट्टः । मेघपुष्पः सुग्रीवश्च कृष्णाश्वभेदः । पक्षे - जलम् ।
गोरसस्तक्रम् । चेतसा निर्मितम् । वडवा वह्निभेदः । राजा चन्द्रः नन्दनः पुत्रो
यस्य स समुद्र इति विरोधः । तुरंगयोषिदिति परिहारः । सुरतव्यापारेणाश्वो
दुर्बलो भवतीति तज्ज्ञानां वादः । 'अश्वा वडवा' इत्यमरः । नीलादयस्त्रयः
कपिभेदाः । ततश्चेति । द्रोणः काकभेदः । शृगालो वसुदेवपुत्रः कश्चिद्राजा ।
पथिकः वियोगी । महाकालः शिवः । तदा त्विति । वृकाणामीहामृगाणामु-
दरम् । 'कासुसामर्थ्ययोः शक्तिः' इत्यमरः । 'कासुः शक्त्यायुघेऽपि च ' इति विश्वः ।
गजोऽसुरभेदः । प्रास आयुधभेदः । शुकवयः कीरपक्षिणः । पक्षे --काव्यगुण-
भेदः । आशुकवय आशुकाव्यकर्तारः । 'पक्षी च विर्निगदितः' इत्येकाक्षरः । किं
चेति । खड्गादित्रयमायुधभेदः । कञ्चुकः कवचः । रक्ताक्षस्ताम्राक्षः । पक्षे
गण्डकं मृगं सर्पं भल्लूकं महिषम् । 'रक्ताक्षो महिषे दैत्ये पारावतचकोरयोः' इति
रत्नमाला । तदन्विति । कुम्भा वृक्षभेदाः । पत्रं गरुत् । 'शम्बरं सलिले पुंसि