2023-09-02 06:16:12 by jayusudindra
This page has been fully proofread once and needs a second look.
कलिकालकृतं मन्ये यज्जगत्सुमनोन्वितम् ।
माधवोऽत्रान्यथा कस्मान्माधवीजालकावृतः ॥ २० ॥
तदत्र नारदवचनश्रवणविदीर्णहृदयस्य मम भगवान्धृतसुमाकरसंप
त्सारङ्गप्रियः कनकश्रीविद्योतमानाम्बरो माधव एव शरणम् । यदनुग्रहा-
दहमपि योगी भवेयम् । यदयमचेतनोऽपि पन्नगाद्रिरङ्गीकृतविपुलनितम्ब
इव दृश्यते ।
अस्त्वेतत् । मृगयाव्याजेन वनभूमिषु विनोदयामि मानसमिति वि-
चिन्त्य च बकुलमालाप्रेरितवराहदत्तेन किरातसैन्येन सह पद्मव्यूहमिव
विलसत्केसरं वैद्यमिव तिरस्कृतवातवर्गं गङ्गाप्रवाहमिवार्यावर्तहृद्यम् ।
उत्तरगोग्रहणरणमिव स्तब्धकर्णं वर्णसमूहमिव ह्रस्वदीर्घप्लुतसुन्दरं चित्रर-
थमिव गन्धर्वश्रेष्ठं वणिजमिव भाण्डभूषितं कर्णाटदेशगोरसमिव मेघ-
मिति । कलिकालंकृतमिति । कलेः कालं कृतं युगभेदं मन्ये । सुमनसा
शोभनचित्तेन जातमिति शेषः । माधवीजालकं यादवस्त्रीसमूहः । माधवः कृष्ण
इति चमत्कारः । तत्त्वार्थस्तु कोरकालंकृतम् । सुमनसः पुष्पाणि । माधवी लता-
भेदः । जालकानि कोरकाः । माधवो वसन्तः । 'चतुर्थेऽपि युगे कलिः' इत्यमरः ।
'युगपर्याप्तयोः कृतम्' इति च । 'जालं गवाक्ष आनाये कोरके दम्भवृन्दयोः?
इति विश्वः । तदत्रेति । सुमाकरः शोभनलक्ष्मीपाणि: । 'इन्दिरा लोकमाता
मा' इत्यमरः । गजेन्द्रप्रियः । ध्यानवान् । तत्त्वार्थस्तु – भङ्गप्रियः । वसन्तः ।
संगतिमान् । 'योगः संनहनोपायध्यानसंगतियुक्तिषु' इत्यमरः । विपुलनितम्बा
वनिता । 'सिंहस्याश्वस्य पुच्छे तु किंजल्के केसरोऽस्त्रियाम् । नागकेसरपुंनागब-
कुलेषु पुमानयम् ॥' इति रत्नमाला। आर्यावर्तो देवमण्यादिः । पक्षे– 'आर्यावर्तः
पुण्यभूमिर्मध्यं विन्ध्यहिमालयोः' इत्यमरः । 'रेचितं वल्गितं प्लुतम्' इति च अश्व-
गमनभेदः । पक्षे – "ऊकालोऽज्झ्रस्वदीर्घप्लुतः' इति शाब्दिकाः । गायने पशुभेदे
च रससिद्धे च खेचरे । अन्तराभवसत्त्वे स्याद्गन्धर्वस्तुरगेऽपि च ॥ इति रन्तिः
'नदीपात्रे भूषणे च तुरगाणां च भूषणे । मूलद्रव्ये च वणिजां भाजने भाण्डमु.