2023-09-02 06:08:09 by jayusudindra
This page has been fully proofread once and needs a second look.
ण्ठीरवत्रासितपथिकः सरस्वतीदेह इवाजातिभूषितो वनिताजन इव रसा-
लसहितो रत्नं सकलर्तूनां प्रत्नं भागधेयं सतीनां सुराजीवोऽपि सुमनःसं-
दोहश्लाघितः अशोकयुक्तोऽप्यसुमनाः कुसुमाकरस्त्वाविरासीत् ।
अथ तं दृष्ट्वा देवोऽप्यचिन्तयत् – 'अहो महनीयता वसन्तस्य
आचार्यो मदनागमस्य किमपि स्त्रीमानरुग्भेषजं
कान्तायुक्तविलासिलोकचरितप्राचीनभाग्योदयः ।
यस्त्वागत्य लतासु पल्लवरुचिं संपादयिप्यन्भृशं
संजातोत्कलिकासु तासु रमते राजद्वयाः सांप्रतम् ॥१८॥
अपि च ।
भङ्गो माने चक्रशोभा कुचेऽपि न्यस्ता चित्ते सारसश्रीर्वधूनाम् ।
युक्ते ताभिर्जीवनं वै वियुक्ते पङ्कं पुंस्याश्चर्यचर्येण येन ॥ १९ ॥
इदानीं हि ।
पक्षे— प्रेमालसानामाप्तः । 'जातौ जातौ यदुत्कृष्टं तद्रत्नम् इति जगद्धरः ।
सुराजीवो मद्याजीवी । सुमनसो विद्वांस इति विरोधः । शोभनपद्मः । पुष्पाणीति
परिहारः । शोकशून्यः अशोभनचित्त इति विरोधः । वृक्षभेदयुक्तः जातिपुष्प-
रहित इति परिहारः । 'सुमना मालती जातिः' इत्यमरः । अहोमहनीय
तेति । मानः कोपभेदः स एव रुग्रोगः । 'किमव्ययमदेश्ये (?) स्यादीषन्मात्रे
परात्मनि' इत्यजयः । पल्लवरुचिर्विटासक्तिः । उत्कलिका उत्कण्ठा । वयो
यौवनमिति चमत्कारः । तत्वार्थस्तु किसलयकान्तिः पक्षीति । षिङ्गः पल्ल-
विको विटः' इत्यमरः। 'पल्लवोऽस्त्री किस्रलयम्' इति च । 'कलिका कोरकः पुमान्'
इति च । तासु संजातोत्कलिकास्वित्यनेन 'मोहनं नारभेत्तावद्यावन्नोत्कण्ठिता
प्रिया' इति कामशास्त्रं संगृहीतम् । मोहनं निधुवनम् । भङ्ग इति । तरङ्गा-
वर्तकमलजलकर्दमानां वैयधिकरण्येन स्थापनादाश्चर्यचर्यत्वं वसन्तस्य । तत्त्वा
र्यस्तु भेदः । चक्रवाकशोभा । सा प्रसिद्धा । रसश्रीः प्रेमसंपत् । प्राणः । पाप-