2023-09-02 06:00:22 by jayusudindra

This page has been fully proofread once and needs a second look.

विष्णुर्ध्येयो वैष्णवाः सङ्गयोग्यास्तीर्थक्षेत्रस्थानसंसेवनं च ।
योगाङ्गानां साधनं तत्त्वचिन्तेत्येषा रीतिः श्रेयसे जायते नः ॥१७॥
 
किं च । किं योग्येयं वृत्तिर्विरक्तानां यद्वनिताजनेन सह वाक्संयो -
जनम् । अथ ज्ञात्वा वा किं कृत्यं देवस्य कृतविवाहस्य । देव,
कल्याणी विजयी तिष्ठ' इति ।
देवोऽपि 'केयं भवेत् क्व वा तिष्ठेत् कथं जानामि कं वा पृच्छामि
कः शमयति ममाधिम्' इति चिन्तासीमन्तितहृदयो दर्शितशुष्कमुखवि-
कासस्तत्कालोचितालापैर्नारदं विसर्जयांबभूव ।
एवं सति,माकन्दप्रवालकदम्बचुम्बनसुखितमत्तपरभृतमहिलानिरन्तरोद-
ञ्चितपञ्चमस्वरान्तरितनिजवनिताकृतपरपुरुषसंकेतसंराववञ्चितगृहपतिरा-
रामरमाप्रथमर्तुमहोत्सवारम्भमङ्गलगीतिकापठनाविरतलोललोलम्बनितम्बि
नीश्रुतिसुभगझंकार श्रवणसमयसंस्मृतनिजनायकाहितैकाग्रमनीषानिश्चल-
स्थितमज्जनागतयौवतशतालीककनकसालभञ्जिकापुञ्जरञ्जितमञ्जुवञ्जुलनि-
कुञ्जवलयितसुवर्णमुस्वरीतटः प्रियजनसंकेतितवेतसीवनगामियामिनीशसु-
स्वकामिनीग्रहयालुयामिनीचरसमानयामिकराजपुरुषगृहीतनिजकरसंस्पर्श-
संजातसात्त्विकभावशिथिलिततत्करमुष्टिबन्धविनिर्गतललनालोकावलोक-
नमुदितान्तरङ्गभुजङ्गनिकरसंस्तुतमदनकटुकलम्बकदम्बो वनिताकुचाभोग
इव बहुसरोजातसमृद्धिर्वीर इव पराङ्गनाशंकरो हिमगिरिरिव मदकलक-
 
रत्नमाला । देव भजकजनेत्यारभ्य संवृत्तेत्यन्तग्रन्थे पकाराभावः । तथाहीत्यारभ्य
विजयी तिष्ठेत्यन्ते ग्रन्थे पवर्गाभावो ज्ञेयः । माकन्देति । सुवर्णमुखरी नदी-
भेदः । यामिकाः 'पाहरेवाले' इति भाषा । सात्त्विकभावः स्वम्भप्रलयरोमाञ्चादिः ।
भुजङ्गो विटः । कलम्बो बाणः । सरोजातं पद्मम् । पक्षे - सरो हारः । उत्तमा-
जनानां सुव्रतः । पक्षे-शत्रुशरीरनाशकः । मद्युक्ता कलकण्ठी पिकी । पक्षे-
मदकलो मदोत्कटः । जातिर्मालती । पक्षे अजो ब्रह्मा । रसाला आम्रवृक्षः ।