2023-09-01 15:04:08 by jayusudindra

This page has been fully proofread once and needs a second look.

चन्द्रेण संघट्टयन्ती चन्द्रभूषणमपि करे व्यवस्थापयन्ती वशीकृतसकल-
निर्जरकदम्बा यथागतं गतवती । इत्युक्त्वा तस्यां किंनर्यां संवृतवचनायां
प्राह स्म नारदः ।
अथ सवितरि तीव्रे पर्वतेन प्रबोध्यमानकालापगमो देवस्य दर्शन-
सुखमनुभवितुमत्रागतोऽस्मि । देव, किं चिन्तयसि । श्रवणादेव सा किं
तरलयति तव चेतनाम् । मा भव तरलः । तरलो हारमध्यमणिरेव नायको
भवति न पुमान् । तिष्ठ मनुष्यवत् । अस्त्वेतत् । देव, कथितं कथ-
नीयम् । दृष्टो द्रष्टव्यः शेवधिः । तदनुगृहाण । गृहाणाशिषः । साध-
यामि नारायणाश्रममिति ।
अथ श्रीनिवासेऽपि सस्तोकहासं 'महर्षे, अपि नाम ज्ञातं किं भवता
कुलाभिधानादिकं तस्या युवमानसमत्स्यबडिशगुणजालस्य' इति वदति
पुनः प्राह — 'देव, भजकजननिर्जरागम, अहो लावण्यम् अहो विलासः
अहो चातुर्यम् अहो रमणीयता रमणीमणेरिति जाताकस्मिककौतुकेन
क्षणं क्षणं माध्याह्निकावश्यकरणव्यग्रतया क्षणं भवद्दर्शनाभावचिन्ताता-
न्तान्तःकरणतया निरोष्ठे च श्लेषाभियोगे कालं गमयतो ममैतच्छ्रावणेच्छा
न संवृत्ता । इयमुक्तिरपकारवती जाता । अहो किं कुर्मः । मुनयो वयं
अपवर्गवार्तामुपदिशामः । तथा हि ।
 
भेदः । पक्षे - श्रवणं श्रुतिः । नीलोत्पलम् । अपाङ्गो मदनः । आशुगो वायुः ।
पक्षे–कटाक्षः । तीव्रगमनः । इनं सूर्यम् । मेघमण्डलमपि । सुधांशुना ।
पक्षे-पीनं कुचमण्डलं कर्पूरेण । शिवम् । राजग्राह्यद्रव्ये । पक्षे–स्वर्णाभरणं
पाणौ । अथ सवितरीति । तरलश्चञ्चलः । नायको नेता । पुमान्न भवति ।
हारमध्यमणिः । पक्षे - द्वावपि मध्यरत्नवाचकौ । मनुष्यवदिति लाकोत्तिरिति
चमत्कारः । नारायणवन्मा तिष्ठेति तत्त्वार्थः । साधयामि गच्छामि । 'साधनमनु-
गमगत्योः शेफसि सिद्धौ निवृत्तिदापनयोः। मृतसंस्कारे हेतौ धनहिंसायाम्' इति