2023-09-01 14:57:59 by jayusudindra
This page has been fully proofread once and needs a second look.
अत्रान्तरे यासां चलन्तो दन्ता न नेत्रान्ताः, धवला: केशा न
हासाः, बृहद्वयो न कुचमण्डलम्, वली वदने नोदरे, भुग्नता मध्यदेशे
न कुन्तलेषु, तासां तु जरद्वनितानां भिन्नभेरीसमानः कोऽपि ध्वानो
व्याकुलीचकार ससखीकदम्बां राजकन्याम् । तथा हि – 'अयेऽम्बा-
म्वाम्बरमणिमपि भीष्मकिरणं पश्य पश्य चण्डकोपो भूपः । यामः
पुरीम् । शीघ्रं गृहाण शुष्कांशुकगणं पेटिकां च । राजभार्याया हर्ष-
कारणं पङ्कजचयं खण्डय । अच्छाच्छैरम्भोभिरापूर्य कुम्भं भर शिरो-
भागे । भण मम गिरा राजकुमारीमाकारयाकारय । रचय प्रणामपरि-
पाटीं रमायाः' इत्युक्त्वा च चिरयन्त्यां राजकन्यायां पुनः किंचित्कोपेन
निर्दन्त्याक्षराणि विस्मृत्य 'किं मयाग्रे गन्तव्यम्' इति रथसादभिधाय
अहहेति दन्त्याक्षरसंसर्गदूनदन्तावलयः खेदमुद्रामभिनीय जोषं तस्थुः
ततश्चेयं राजपुत्री शनैरुत्थाय घनसारसदृशेन केशकलापेन न भोग-
योग्येन रूपेण अतिमुग्धया दशया अनङ्गरागोज्ज्वलेन वपुषा नाभिस्पृ-
ष्टेन कुचमण्डलेन अतनुसुन्दरेण भूषाजालेन धवलसच्छोमेन मानसेन
शोभमानाभिर्युवतीभिर्जरतीभिश्च परिवृता सा वैश्रवणं नीलेन पद्मेन च
योजयन्ती अपाङ्गमाशुगं चेतस्ततः प्रेरयन्ती मुदा पीनं पयोधरमण्डलं
'ग्रामायव्ययलेखनेन' इति विश्वगुणादर्शप्रयोगः । निर्दन्त्यानि दन्तसंबन्ध-
शून्यानि । तव्यमिति वर्णद्वयं दन्त्यम् । ततश्चेयं राजपुत्रीति । घनसारः कर्पू-
रम् । पक्षे–मेघश्रेष्ठः । भोगयोग्यं नेति । पक्षे-नभोगा आकाशगा देवाः ।
'मुग्धः सुन्दरमूढयोः' । अङ्गरागोऽनुलेपनद्रव्यम् । पक्षे -मदनानुरागः । नाभ्या
स्पृष्टः । पक्षे अभिस्पृष्टो नेति । तनुः शरीरम् । पक्षे - अनल्पसुन्दरम् ।
धवलं च सच्छोभनं च पक्षे - धवेन पत्या । निर्जरकदम्बो देवसमूह इति
चमत्कारः । युवसमूह इति तत्त्वार्थः । वैश्रवणः कुबेरः । नीलः पद्मश्च निधि-