This page has been fully proofread once and needs a second look.

काव्यमाला ।
 
श्रीवेङ्कटेशकविप्रणीता
श्रीनिवासविलासचम्पूः ।
 
श्रीधरणीधरकृतटीकया समेता ।
 
पूर्वभागः ।
 
प्रथमोच्छ्वासः ।
 
वंशस्ते मुरली तदस्तु भण भो गोत्रं फणीन्द्राचलो
माताहं जगतां त्रयस्य सविता वामेतरा दृ<flag></flag>ङ्मम ।
क्वास्ते ते शरणं त्वमेव सुमुखीत्येवं हि पद्मावतीं
वाचा संमदयञ्जयत्यनुकलं श्रीश्रीनिवासो हरिः ॥ १ ॥
 
भवसिन्धुपारगमने कवितामार्गप्रकाशनेऽपि मम ।
मानवमृगराजगुरोः सेवोडुपतरणिसरणिमावहतु ॥ २ ॥
 
श्रीः॥ वंशस्त इति । वंशादयः पञ्च कुलाद्यर्थका इति प्रश्नपक्षे । वेण्वा-
द्यर्थका इत्युत्तरपक्ष इति कश्चिञ्चमत्कारः । तथा ह्यर्थ:- 'द्वौ वंशी कुलमस्करौ'
इत्यमरः । गोत्रं नाम पर्वतश्च । 'गोत्रं क्षेत्रेऽन्वये छत्रे संभाव्ये बोधवर्त्मनोः ।
वने नाम्नि च गोत्रोऽदौ गोत्रा भुवि गवां गणे ॥" इति हैमः । माता सवित्री
मापनकर्ता च । 'जनकः सविता पिता' इति धनंजयः । सविता रविरित्यर्थः ।
'शरणं गृहरक्षित्रोः' इत्यमरः । सूर्यचन्द्रलोचनो हरिरिति कविसमयः । पद्मावती
काचन राजपुत्री ॥ १ ॥ भवेति । 'उडुपचन्द्रमेलयोः' इति धरणिः । 'मेलः
'प्लवः' इति सुधा । तरणिर्नौः । पक्षेऽर्कः । 'तरणिस्तरणेऽर्केऽशौ कुमार्यौषधिनौ-