2023-09-01 14:50:59 by jayusudindra
This page has been fully proofread once and needs a second look.
स्तननहर्षको घनकालो न स्त्रीजनः । चलतादर्शनं नेत्रे क्रीडाशैले च
न चेतसि ।
किं च । स्त्रीणां कान्तिः कनकं स्तनः करकः कण्ठः जलजः नेत्रं
नलिनमास्यं सरसं स्नेहस्थानं नन्दनन्दनः रागो न दीनः ।
किं च । अरसा अरातयो धृतशासना आस्यजा अरिष्टकारणं दधि
कर्णशिरश्छेदाकर्णनं चिरंतनकथायां हंसानन्दासहता सैहिकेये । राक्ष-
सानन्दः शरद्गणे ।
अर्थासक्तिः शास्त्रचिन्तकानाम् । नार्थासक्तिर्गीतानन्दश्च यतीनाम् ।
न गीतानन्दः सहस्रधारणाकाङ्क्षा ऋषीणां क्षत्रियाणां च ।
किं च । लसच्छ्रीजानि स्त्रीजालानि क्षत्रियाधिकजातिंजालं च ।
सदाज्ञानि राष्ट्राणि अग्रजातिजालं च । अलं किलात्यन्तकथनायासेन
सदायानि संगतानि धनगृहाणि च हृदयानि च रथिकचक्रं चेति ।
वस्तिलसङ्ग एव । पक्षे–सङ्गो रतम् । पक्षे – संगरो रणः । स्वननं गर्जनम् ।
स्तनविषये न हर्षकश्च । चलता चञ्चलत्वम् । पक्षे - चेति च्छेदः । पक्षे - अस्थि-
रता । चपलत्वे प्रकारभेदात्पूर्वस्माद्भेदः । किं च स्त्रीणामिति । कनकमेवे-
त्यभेदस्तूपचारः । करकं दाडिमफलम् । 'करकस्तु पुमान्पक्षिप्रभेदे दाडिमेऽपि
च' इति सुधा । जलजः शङ्खः । अन्यत्सुगमम् । अत्र वाक्यसप्तके वर्णवैप-
रीत्येऽपि विपर्ययाभावात्कश्चिच्चमत्कारः । किं च । अरसा इति । 'शासनं
निष्करग्रामे" इति कोषः । आस्यजा ब्राह्मणाः अरिष्टंतक्रम् । हंसो नृपतिर्यतिर्वा ।
शरत्संवत्सरः । अर्थोऽभिधेयो द्रव्यं च । गीता भगवद्गीता गीतं च । धारणा ।
पक्षे - बहु (सहस्र ) धेति च्छेदः । लसच्छ्रीति । श्रीजः काम इति बहुवचनम् ।
पक्षे — श्रीजानिर्नारायण इत्येकवचनम् । एवमग्रेऽपि । आज्ञाशब्दः । पक्षे -ज्ञानि-
शब्दः । क्षत्रियाधिकजातिर्ब्राह्मणजातिः । दायो देयद्रव्यम् । 'दायं ददात्यनुमो-
दते इति भवभूतिः । संगतानि स्नेहाः । 'संगतानि मृगाक्षीणाम्' इति कुवल-
यानन्दे । पक्षे— आयो व्ययेतरः । पक्षे 'अयः शुभावहो विधिः' इत्यमरः ।
पक्षत्रये बहुवचनम् । रथिकचक्रपक्षे तुः यानमस्यास्तीति यानि इत्येकवचनम् ।