2023-09-01 14:42:13 by jayusudindra
This page has been fully proofread once and needs a second look.
गिरश्च । अधिकंधरासक्ता हाराः कर्षकाश्च । अधिकंदराजिता अरयः
शान्तिघनस्थल्यश्च । अधिकारिजनश्रियः लसन्ति न लसन्ति च ।
अधिकरणरसिका रथिका ग्रान्थिकाः स्त्रियश्च । अधिकासारश्रियं
दधाना नगरी देशो घनश्च । यस्य चारिचक्रखण्डकं चारिचक्रम् अगदा
गदा सन्नन्दकः सन्नन्दकश्च राजत इति ।
किं च । यस्य चराधिकानन्दः राजनीत्यां रते च । चरणजाता
गङ्गा कीर्तिश्च । चेलाकृष्टी रतिकाले स्त्रीणां रणे अरातीनां च । चेतः-
कलितानन्दा दया कटाक्षाश्च ।
यत्र शासति धरणीं कृष्णकेशश्रियं धत्ते कचरचना । राजहंसानल-
सस्थितिर्हासश्च स्त्रीणाम् । अरिस्त्रियः अकेशा हरिजलजासनश्रीकण्ठ-
दशां दर्शयन्ति ।
अतिलसत्सङ्गरहितता तैलयन्त्राणां न स्त्रीणां नारिसेनानां च ।
कंधरा कण्ठः । पक्षे –धरा भूमिः । दरस्रासः तेनाराजिताः । पक्षे —–कन्दैरा-
राजिता अतिशयेन राजिताः । अधिकारोऽस्यास्तीत्यधिकारी । पक्षे–अरिः
शत्रुः । रणः । पक्षे—अधिकरणं पञ्चावयवयुक्तम् । तत्तु मीमांसाशास्त्रप्रसिद्धम् ।
पक्षे- करणानि नागादिबन्धाः कामशास्त्रे प्रसिद्धाः । इत्यर्थत्रयम् । अधिकेति
च्छेदः । सारश्रियम् । पक्षे - कासारः सरसी । यथोचितं लिङ्गं ज्ञेयम् । पक्षे -
'आसारो वेगवद्वर्षे' इत्यभिधानचिन्तामणिः । इत्यर्थत्रयम् । यस्येति । शत्रु-
वृन्दखण्डकं अरयुक्तं सुदर्शनम् । अगदा पर्वतभेदिनी । सतां हर्षकः सन् नन्दकः
खड्गः । चरा वार्तावेदकाः । पक्षे – चेति च्छेदः । राधिकागोपी । एवमग्रेऽपि ।
चेति च्छेदः । चरणः । रणः । चेलं वस्त्रम् । इला भूश्च । चेतो मनः । इतः
मयीति यावत् । यत्रेति । कृष्णश्च कश्च ईशश्च कृष्णकेशा हरिब्रह्महराः इति
मूर्तित्रयमिति चमत्कारः । तत्त्वार्थस्तु सुगमः । राजा हंसश्च अनलश्च चन्द्र-
सूर्याग्नय इति तेजस्त्रयम् । तेषां समाना स्थितिर्यस्य स सस्थितिरिति चमत्कारः ।
राजहंसः पक्षिभेदः तद्वदनलसस्थितिरमन्दस्थितिर्यस्येति तत्त्वार्थः । अश्च कश्च
ईशश्च अकेशाः । पक्षे - विधवाः । अतिलसदितिः । तिलसत्सङ्गाभावाभा-