2023-09-01 14:32:17 by jayusudindra

This page has been fully proofread once and needs a second look.

यश्च धृतशङ्खचक्रतया धीरतया च अरिदरकरः । राजहंसतयाहं
सकलाधीशतालंकृत इत्यहंकृतिरहितः । किं च कलहंसश्च कलहंसा-
नन्दं नाङ्गीचकार । चक्री च नगरस्थितिकलितश्च । नाधिराजजाता-
श्चर्यचर्यश्च नगाधिराजजाताश्चर्यचर्यश्च । यं चाह्लादितनीलं ज्ञातशीते-
तरदीधितितनयाधिकरसश्रियं जयासक्तचेतसं दाशरथिं कृष्णं च जानन्ति ।
येन नयेन रञ्जितः किल जनः । यस्य च स्त्रीणां चन्द्राचलकान्तिहारी
स्तनः आस्यं च । सरलताहृद्या गीः कण्ठस्थली च । किसलयसहजः
सदाधरः धरसदृशः स्तनः । यस्य चाधिकलक्षणा गायना जनाश्च ।
अधिकङ्केलिहृद्याः क्रीडाशैला गिरश्च । अधिकंजातरागोऽधरः लीला
हंसश्च । अधिकाननानन्ददा हरिणाः स्त्रियश्च । अधिकरञ्जकाः साला
 
जानिः' इतिवत् । यश्चेति । अरि सुदर्शनम् । दरः शङ्खः करे यस्य । पक्षे
शत्रुभयंकरः । राजहंसस्तस्यैवानन्दं नाङ्गीचकारेति बिविरोधः । चवर्णोऽप्यर्थे ।
परिहारस्तु – कलहंसो राजश्रेष्टः । कलहमिति च्छेदः । एवमेवाप्ग्रेऽपि विरोधपरि-
हारौ ज्ञेयौ । चक्री सर्पो विष्णुश्च गरं विषम् । नगरं पत्तनम् । गाधिराज-
जात नगाधिराजजातेति शब्दतो विरोधः । गाधिराजजातो विश्वामित्रः । नगा-
घिधिराजो हिमवान् । 'आश्चर्ये हिमवानिव' इति श्रीभागवतम् । यं वेचेति ।
नीलः कपिभेदः । पक्षे–नीला कृष्णभार्याभेदः । शीतेतरदीधितितनयः सुग्रीवः ।
पक्षे - सूर्यपुत्री कालिन्दीति काचन कृष्णपत्नी । जयः प्रसिद्धः । पक्षे–अर्जुनः ।
येनेति । अत्र विरोधः शब्दतः । परिहारः सुगमः । यस्येति । चन्द्राचलः
स्वर्णगिरिर्मेरुः । हारी मनोहरः । पक्षे–सुधांशोर्या अचला कान्तिः । सरलता
सारल्यम् । पक्षे—सरो हारः । अधर ओष्ठः । रः पर्वतः । मुक्तपदग्रासः (?)
यस्य चेति । गायना गीतिविद्याकुशलाः । कलोऽव्यक्तमधुर ध्वनिः । तेन क्षण
उत्सवः । अघिधिशब्दोऽधिकार्थः । ततवाश्चाधिकः कलक्षणो यैखेस्ते । अधिकलक्षणा
इत्यर्थः । 'अधिकपयः श्रियं' इति माघप्रयोगः । पक्षे–लक्षणम् । कङ्केलि
-
र्
वृक्षभेदः । पक्षे–केलि: । जातराग उत्पन्नरक्तिमा । पक्षे --पद्मानुरागः ।
काननम् । पक्षे - आननम् । साला वृक्षाः । करञ्जको वृक्षभेदः । पक्षे - रञ्जकः ।