2023-09-01 13:24:06 by jayusudindra
This page has been fully proofread once and needs a second look.
ललल्लवङ्गिकागन्ध विलसत्सत्समीरणः ।
ततं तनोति संतोषं भो भो भोगीन्द्रसंततेः ॥ ११ ॥
इति । तच्छ्रुत्वा तूष्णीं स्थितायां राजपुत्र्याम् अन्यापि काचन प्रत्यग्र-
दन्तक्षतदूयमानाघरबिम्बा प्राह - 'अयि राजनन्दिनि,
निर्यत्किञ्जल्कगन्धाङ्घसारङ्गगणसङ्गिनी ।
कलकण्ठचयाकीर्णा कान्तेयं सरसी सखि ॥ १२ ॥
हंससारसचक्राङ्गचक्रचक्रैरलंकृतः ।
नयनानन्दनिलयः कस्य न स्याज्जलाशयः ॥ १३ ॥'
इति । तदपि किमपि ध्यायन्तीव तस्यास्तरलालापश्लोकमिवैतस्या निरो-
ष्ठ्यश्लोकद्वयमप्यनाकर्ण्य स्थिता सा । अथ सा सखी विहस्य पुनः
प्राह — 'अयि धरानायकशरीरजे, ज्ञातं ते हृदयम् । तं चिन्तयसि यश्च
नीलनीरदसच्छायः शङ्खचक्रगदाधरः ।
रत्नाकराङ्गजानाथः कंसनागेन्द्रकेसरी ॥ १४ ॥
राधास्तनन्यस्तकरः स रागिजनाग्रगण्यः किल नन्दजातः ।
सकंसहंसान्तकृदण्डजातहरिर्हरिः काञ्चनशैलधीरः ॥ १५ ॥
तद्धितं ते दशायाः अङ्गीकृतं चानेन जनेन तन्नियतिरचिराद्धटयति
ते चिन्तितम् । त्यज क्लेशम् । कलय सत्यतां गिरि अस्य जनस्य यत्
शितिजलजसदेशदेहकान्तिर्धरणिधरेन्द्रशरीरजातजानिः ।
कलयति स हि हस्तनीरजं ते हरसदृशः किल राजशेखरश्च ॥ १६॥
हृदयमाकूतम् । 'हृदयं जीविते चित्ते वक्षस्याकूते इति यादवः । राधेति ।
अण्डजातहरिर्गरुडतुरंग: । दशा वयः । शितीति । शितिजलजं नीलोत्पलम् ।
पक्षे–धवलशङ्खः । '<flag></flag>ती धवलमेचकौ' इत्यमरः । धरणिधरेन्द्रो भीष्मकः ।
पक्षे - हिमाद्रिः । राजशेखरो भूपश्रेष्ठः कृष्णः । पक्षे -चन्द्रचूडः । 'कुध्नेड्ज-