2023-09-01 11:14:18 by jayusudindra

This page has been fully proofread once and needs a second look.

अथ सा राजदारिका ताभिः समानशीलवयोविलासाभिः सखीभिः
सह जले यावद्विहरति तावदेव देव, तेनैव मार्गेण सुग्रीवसेनानामिवः
वलीमुखविभूषितानां मेरुदेवीनामिव नाभिरम्यकुचानां वृत्रगदाघातव्य-
थितगजेन्द्रवन्नम्रकटकानां त्वच्छत्रुततीनामिव विरसानां पुष्करावर्तवन्नी-
रदानाम् आर्याणामप्यनुग्रभावाश्रयणीनां क्षीणप्रकाशानामपि वृद्धदशानां
विनतानामपि वयःसंतोषरहितानां अदन्तशोभान्वितानामपि तान्तानां
जरतीनां कुलमाजगाम ।
ततस्तासां भयेन शीघ्रं निर्गत्य सरसः क्षीरपारावारादिव रमा सहस
खीकदम्बा विविधलतावलीमध्यवर्तिनीव कल्पलता कस्मिंश्चिदिन्द्रनील -
सोपानशिलातले नीलनीरदमण्डल इव सौदामनी क्षणमतिष्ठत् ।
 
अथ तासु तत्सखीषु काचिदभिनवमधुपानमत्ता प्राह — 'अये
काञ्चननिभभर्तृदारिके,
 
माकाशम् । पक्षे – निरवधिः । अंशुकं वस्त्रम् । पक्षे - प्रभा । अथ सा राज--
दारिकेति । वली जराप्रापकचिह्नभेदः । तद्युक्तं यन्मुखम् । पक्षे – वलीमुखाः
कपयः । 'बलिदैत्यप्रमेदे च करचामरदण्डयोः । उपहारे पुमान्स्त्री तु जरयां
श्लथचर्मणि ॥' इति सुधा । केलिरित्याद्या ह्रस्वदीर्घाः स्युः इति वाचस्पतिः ।
अभिरम्याः कुचा नेति नञ्समासः । पक्षे नाभी राजभेदः । तस्य भार्या मेरुदे--
वीति श्रीभागवतम् । 'गजगण्डकटी कटौ' इत्यमरः । रसः शृङ्गारः । पक्षे -
रसा भूमिः । नीरदा निर्गतदन्ताः । पक्षे–मेघाः । पुष्करावर्ती मेघभेदः ।
आर्या पार्वती । उग्रः शिवः । पक्षे–वर्याः । क्रूरः । 'दशा वर्तिर्दशा वयः' इति
हारावली । विनता पक्षिजननी । 'वयः पक्षिणि बाल्यादौ वयो यौवनमात्रके' इति,
विश्वः। अकारान्ताः। तकारान्ताः । पक्षे रदहीनाः । म्लानाः । अथ तास्विति ।
काञ्चननिभा भा कान्तिर्यस्याः । सा चासौ भर्तृदारिका चेति कर्मधारयः । ततं
प्रसिद्धम् । भोगीन्द्राः सर्पश्रेष्ठा बिलासिश्रेष्ठा वा। ओष्ठसंबन्धरहिताः निरोष्ठ्यवर्णाः