2023-09-01 11:06:55 by jayusudindra
This page has been fully proofread once and needs a second look.
मननुभूताश्लेषामस्पृष्टकलङ्कां दोषानुबन्धरहितामज्ञाततमः संबन्धजातवि-
कारां च कामपि कन्यामणीमद्राक्षम् ।
यस्या नारदसदृशः केशपाशो हासश्च देवनागमनोज्ञा वेणी गण्ड-
च्छविश्च अर्धचन्द्रहृद्यं ललाटमण्डलं कटाक्षकदम्बं च सारङ्गधिक्कारि
नयनयुगं गमनं च रागोत्तरोऽधरः क्वापि यूनि चेतःप्रसरोऽपि चापाप-
कारिणी भ्रूलता मतिश्च चन्द्रमासुरा मुखशोभा देहच्छविश्च सरलो
नासावंशः सखीजनश्च कुण्डली कर्ण: रोमावली च रतिसुन्दरं रूपं
वयश्च चक्रमञ्जुला नाभिः कुलद्वयी च शङ्खकान्तः कण्ठः पाणिश्च
गुरुमनोहरं नितम्बबिम्बं चरितं च हंसकोद्भासिता पदद्वयी सीमन्तक-
लितसिन्दूररेखा च अनन्तहृदयंगममवलग्नं गुणवृन्दं च विचित्रांशुका -
च्छादित ऊरुभागः सर्वावयवसंचयश्च । देव, पश्चाज्ज्ञातं सा कस्य-
चिद्राज्ञः कन्येति ।
'गुरुर्महत्याङ्गिरसे पित्रादौ धर्मदेशिके । जलधौ दुर्जरे चापि' इति हैमः । 'कलत्रं
श्रोणिभार्ययोः' इत्यमरः । 'मणिर्द्वयोः' इत्यमरः । दोषा रात्रिः । 'तमांसि गुणति-
मिरसैंहिकेयाः' इति त्रिकाण्डशेषः । यस्या इति । नारं जलं ददातीति नारदो
मेघः । पक्षे–ऋषिमेदः । अत्रोक्तपदार्थानां नारदादीनां शुभ्रत्वादिकं कविसम
यसिद्धम् । 'नारं घनरसः पुमान्' इति शब्दार्णवः । देवेति संबोधनम् । नागः
सर्पः । पक्षे – देवनाग ऐरावतः । अनेन विरहिणीत्युक्तं भवति । 'नागौ वार-
णपञ्चगो' इति ध्वनिमञ्जरी । अर्धचन्द्रो बाणभेदः । 'सारङ्गश्चातके भृङ्गे कुरङ्गे च
मतङ्गजे' इत्यभिधानचिन्तामणिः । 'रागोऽनुरक्तौ मात्सर्ये क्लेशादौ लोहितादिषु'
इति विश्वः । चापस्यापकारिणी समाना । पक्षे – चेति भिन्नं पदम् । अपापका-
रिणी । चन्द्रं स्वर्णम् । सरल ऋजुः । पक्षे — ऋजुबुद्धिः । कुण्डली ताटङ्कवान् ।
पक्षे सर्पः । अमेदस्तूपचारात् । शङ्खा वलयाः । 'शङ्खो ललाटास्थिनि च वलये
चास्त्रियाम्' इति रत्नमाला । हंसकः पादकटकः । पक्षे - हंसः सूर्यः । अनन्त-