2023-09-01 10:59:25 by jayusudindra

This page has been fully proofread once and needs a second look.

निश्चित्य तस्य सरसश्चक्रवर्तिन इव जृम्भमाणसहस्रपत्रस्य कण्ठशोभमान-
कनकमालस्य पुटभेदशोभावहस्य तटनिकटे क्षणमतिष्ठम् । ततः परं
यद्वृत्तं तदस्मच्छात्रस्य कलालापस्य कलंत्र कलंकण्ठी नाम किंनरी
वक्तीत्युक्त्वा विरराम ।
अथ तदाज्ञया आह सा यथार्थाभिधाना कलकण्ठी । अत्रान्तरे
देव, कुतोऽपि पार्वतीशरीरमिव चन्द्राभरणभूषितं सुमेरुशृङ्गमिव नक्षत्र-
मालापरिगतकण्ठं विन्ध्याटवीस्थानमिव मृगराजोल्लसन्मध्यदेशं शेषाच-
लस्वरूपमिव स्फुरद्राजीवपादं नाटकमिव मनोज्ञाङ्कं मनुकुलमिव लस-
द्गम्भीरनाभिरहूगणचित्तमिव कलितभरतागमप्रक्रियमृषिकदम्बमिव तत्सं-
गीतज्ञानं नक्षत्रवृन्दमिव चन्द्रमुखं माधवद्विजमानसमिव कुन्तलोल्लासितं
यौवतमाविरासीत् ।
तत्र तद्वनिताकदम्बेषु चन्द्रमूर्तिमिव सन्मान्यां सुहस्तश्रवणां चित्रो-
त्तरानन्ददायिनीं सल्लक्षणां गौरांशुकां च तथाप्यनाकलितगुरुकलत्रस्पर्शा-
 
मेदस्तु नगरातोद्ययोस्तटिनीमुखे' इति हैमः । अत्रान्तर इति । चन्द्राभरणं
स्वर्णाभरणम् । पक्षे पुमान् शिवः । 'सैव नक्षत्रमाला स्यात्सप्तविंशतिमौक्तिकैः'
इत्यमरः । कण्ठः समीपप्रदेशः । मध्यमवलग्नम् । 'राजीवं नयने ना तु भेदे
हरिणमीनयोः' इति सुधा । 'रूपकां शान्तिकोत्सङ्गे स्थानेऽङ्कः' इति सुधा । नाभी
राजभेदः । 'नाभिर्मुख्ये नृपे चक्रमध्यक्षत्रिययोः पुमान् । द्वयोः प्राणिप्रतीके
स्यात्स्त्रियां कस्तूरिकामदे ॥ इति सुधा । भरतागमो भरतनाट्यशास्त्रम् । पक्षे
रहूगणो राजभेदः तस्योपदेष्टा द्विजजन्मनि भरतभूपालः । इति भागव-
तम् । सद्भिः सङ्गि इतज्ञानं प्राप्तज्ञानं च । चन्द्र इव मुखं श्रेष्ठो यस्य तत् ।
माधव इति कश्चिद्विजः । कुन्तला काचन स्त्रीति पुराणम् । युवतीनां समूहो यौव-
तम् । तत्रेति । लक्षणं सामुद्रिकशास्त्रोक्तम् । पक्षे लक्ष्म। गौरं पीतमंशुकं वस्त्रम् ।
पक्षे शुभ्रकिरणाम् । अंशुरेवांशुकः । 'चेलं वसनमंशुकम्' इत्यमरः । अकृत-
स्थूलश्रोणीस्पर्शनाम् । अनूढामिति भावः । पक्षे गुरुकलत्रं बृहस्पतिभार्या ।