2023-09-01 10:45:58 by jayusudindra

This page has been fully proofread once and needs a second look.

एव संजातेऽस्मिन्पर्वते पर्वतः सर्वतः संचारितचक्षुरिक्षुरसासारमधुरां
मधुराधिप, वाचमवोचत् । आर्य, इतः पश्यतु भवान् । यदत्र लस-
च्चक्र: राजज्जलजः व्यालोलवनमालः दिव्यसारसनालीलसत्कमलोद्भासितः
गरुत्मत्पक्षिसेवितः सदाशेषभोगिप्रियः इन्दीवरश्यामलकान्तिः अय-
मयमग्रत एवेत्यर्धोक्त एव जृम्भणारम्भेणाकुलीकृतोऽयं तदन्वहमपि
चेदेवं भगवाञ्च्छ्रीनिवास एव भवेदित्यालोच्योद्धाट्य नयने क्व क्व
साध्वातारचन्द्रं जय जीवेत्याशिषाभिनन्द्य गृहाण पारितोषिकं प्रिय-
मावेदयसीति कटिकलितं गोदावरी स्नानसमयतत्तीरविस्मृतपटीभवत्कृष्ण-
साराजिनबन्धनपट्टसूत्रं तद्भ्रान्त्या केवलमाकाशमेव समर्प्य विस्मृतदेह -
भावस्त्वमिव राधाकुचकलशदर्शनेनावस्थितः । ततस्तेनापि कथमयम-
कस्माद्भूताविष्ट इव चेष्टत इति शङ्कितमनसा किंचिदपसृत्य विस्म-
योज्जृम्भमाणतारं वीक्ष्यमाणः यावत्पुरतः पश्यामि तावत्कमपि कासा-
रमपश्यं न भवन्तम् । स च नाम्ना पद्मसर इति । देवेनाप्यौषधिग-
वेषणकृतबहुपर्यटनेन दृष्ट एव स्यात् । यस्तु अमृतान्धस इव अमा-
नवाः । अस्त्वेतत् । अथ श्लेषवाददुर्व्यसनेनानेन वञ्चितोऽहमिति
 
स्यादनन्तं सुरवर्त्मनि ।' इति सुधा । पर्वतो ऋषिभेदः । आर्येति । लसञ्चक्रे-
त्यादि विशेषणसप्तकं पद्मसरः परत्वेन श्रीनिवासपरत्वेन च ज्ञेयम् । वनमाला
जलपङ्क्तिः । पक्षे 'आ पादपद्मं या माला वनमाला' इति कलिङ्गः । सारसानाल्या
पद्मनालेन लसज्जलम् । 'नालं नाली पद्मदण्डे' इति सुधा । दिव्यं सारसनं काञ्ची
यासां तास्तादृशो या आल्यः सख्यस्ताभिर्लसन्ती या कमला रमादेवी। 'रशना
तथा । क्लीबे सारसनं' इत्यमरः । अशेषविलासिप्रियः । पक्षे शेषसर्पप्रियः ।
यस्त्विति । मानवा नेत्यमानवाः । पक्षे अपरिमितजल इत्येकवचनबहुवचन-
श्लेषः। 'पत्रं तु वाहने पर्णे पक्षे च शरपक्षिणोः' इति विश्वः । 'कण्ठो गले गल-
<flag></flag> समीपेऽपि ' इति च । 'कनकं चम्पके हेम्नि धत्तूरेऽपि ' इति च । 'पुट-