2023-09-01 10:30:05 by jayusudindra

This page has been fully proofread once and needs a second look.

तत्र तु कस्यचित्पान्थस्य वचसा ज्ञातं भवान्पन्नगाचले निवसतीति ।
ततश्च जातानन्द इत एवागच्छन्मध्येमार्गं कामपीत्यर्धोक्त एव किंचि-
दारेचितभ्रूयुगुल ईषत्तरलितमस्तकं सामिदष्टाग्ररसनं सपर्वतमुखावलो-
कनसंजातस्मितं प्रमादमुद्रामभिनीय देव विषयविरसाप्यस्मच्चित्तवृत्ति-
र्भवत्प्रेम्णाकुलीभवति । अस्त्वेतत् । प्रकृतमनुसरामि । देवस्य चरण-
युगुलमपश्यं यदर्थोऽयं प्रयास इति ।
एवमाभाष्यालम्बितमौने तस्मिन्नुत्पादित कौतुके नारदे देवोऽपि
देवर्षे, कामपीत्यर्धोक्तस्य संवृतिरियं भृङ्गीसंगीतभङ्गीविवशकुरङ्गीहृद-
यस्य लुब्धकबाणवेधः । किं च ।
भवद्विदितार्थस्य ममानिवेदनं सा धनिकस्य पात्रादानप्रक्रिया ।
क्व गता ते भैप्मीहरणकालीना निर्व्याजकृपा । भण मुनिकुलोत्तंस
"अनारम्भो मनुष्याणां प्रथमं बुद्धिलक्षणम् ।
आरब्धस्यान्तगामित्वं द्वितीयं बुद्धिलक्षणम् ॥ "
इति किं न श्रुतं भवता । कुरु कोमलं मनः । मा भवतु शिरीषकुसु-
ममपि कठिनं इति विविधानुनयकोविदः कथं कथमपि तद्वृत्तान्त-
शेषकथनोन्मुखं चक्रे । सोऽपि सफलप्रायो मे मनोरथरसालद्रुम इति
निश्चित्याह -
देव, शृणु सावधानमनाः । वारुण्याश्चेतोविलास इव अनन्तमार्गा-
वलम्बिनि मद्देहच्छविकौमुदीभ्रमागतभ्रमद्बालचकोरनिकरपक्षसमीरतर-
लितवीणागुणक्वणनसमाकर्णनैकाग्रमनसि मय्यागच्छति किंचिन्निकट
 
सीरध्वजापत्यं सती मन्दाकिनी मता' इति ध्वनिमञ्जरी । देव शुण्विति । वारुणी
शेषभार्या । अनंन्तं गगनम् । पक्षे पुमान् शेषः । 'अनन्तः केशवे शेषे पुमा
न्निरवधौ त्रिषु । अनन्ता च विशालायां शारिवादूर्वयोरपि ॥ विश्वंभरागुडूच्योः