2023-09-01 05:30:35 by jayusudindra

This page has been fully proofread once and needs a second look.

भो वैकुण्ठ सभार्यता च भवतो जाता यया साम्बुज-
द्वन्द्वश्रीप्रतिमल्लचारुनयना श्रीर्यत्र गोत्रस्तनी ॥ ७ ॥
 
तस्माच्च निर्गत्य अनेकपारिजातोद्भासितानि गिरिकूटान्यतिक्रम्योद्या-
नानि च पश्यन् अनेककासारसंपदो धर्मशाला अभिनन्द्य किरात-
गृहांश्चासेवमानः अनेकप्रपापालोपरिगताः पानीयशालाः संपूज्य दुर्जन-
ततीश्च मनसा निन्दन् अव्याजरमणीयाः पल्लीरपहसन् वनिताश्च परि-
हरन् रामसेतुमगमम् । तत्र च ।
 
ऋक्षाधिराजोद्भवया कालिन्द्या नीलया सह ।
क्रीडन्सिन्धुर्मया दृष्टो द्वारकायां भवानिव ॥ ८ ॥
 
तरङ्गहस्तैर्मकरीः सुरापगा मुखेऽर्पयन्तं प्रसमीक्ष्य वारिधिम् ।
का वा नदी सोत्कलिका न चास यद्बभूव नारीजनतापि तीरगा ॥९॥
 
अथ च ।
सीताचक्षुर्भद्रानन्ददमब्धिं निरीक्ष्य सेतुं च ।
त्वद्विरहदूनमपि मे सुखितमिवासीत्तदा तु खलु चेतः ॥ १० ॥
 
र्यता । पक्षे वैकुण्ठः कृष्णः । भार्यासहितत्वम् । तस्माच्चेति । 'द्विरदोऽनेकपो
द्विपः' इत्यमरः । अरिजातं शत्रुसमूहः । सिंहवृन्दमिति यावत् । 'सामान्यसंघयो-
र्जातम्' इत्यमराधिकपाठः । पक्षे पारिजाता वृक्षभेदाः । कासाराः । पक्षे असाराः ।
'सारो बले मञ्जुनि च स्थिरत्वे' इति शाश्वतः । 'प्रपा पानीयशालिका' इत्यमरः ।
पाली प्रदेशः । प्रकृष्टपापपङ्क्तिः । अव्या रक्ष्याः । अजाश्छागाः । ऋक्षेति ।
ऋक्षाधिराजोद्भवा चन्द्रोद्भवा । 'नर्मदा सोमोद्भवा' इत्यमरः । पक्षे जाम्बवती ।
कृष्णवर्णा कालिन्दी नदीभेदः । पक्षे द्वे अपि महिषीभेदः । तरङ्गहस्तैरिति ।
मकरी जलजन्तुभेद इति तत्त्वार्थः । मकरिका पत्रिणीतिचमत्कारः। 'मुखं निःसरणा-
स्ययोः' इति धरणिः । उत्कलिका तरङ्ग इति नदीपक्षे । नारीजनतापक्षे उत्कलिका
उत्कण्ठा । आसेति ति<flag></flag>न्तप्रतिरूपकमव्ययम् । सीतेति । सीता चक्षुर्भद्रा चेति
<flag></flag>याः प्रवाहभेदाः । 'सीता चालकनन्दा च चक्षुर्भद्रा' इति भागवतम् । 'सीता