2023-09-01 05:22:56 by jayusudindra
This page has been fully proofread once and needs a second look.
प्रयासः केवलं. द्विजातिसुलभां दक्षिणाशां लक्षीकृत्य प्रवरोपशोभितामपि
विप्रवरोपशोभितां गोदावरीं प्राप्य
नमामि मानदां गोदां नयनायनतां गताम् ।
नमद्धामनताङ्गी तां नवपावनभां शुभाम् ॥ ५॥
इति पद्मवन्धेन स्तुत्वा च ततः केनचिद्दिवसेन गमनकर्मीकृत-
पाण्डुरङ्गक्षेत्रस्तत्र भवदीयां मूर्तिम्
नतवत्सल राजीवनेत्र मामव यादव ।
नवजीवनदाराव वरादानवजीवन ॥ ६ ॥
इति च्छत्रबन्धनेन स्तुत्वा । अथासन्नप्रसवधेनुमिवोभयतोमुखीं कृष्णा-
वेणीमुडुपेनात्रिरिव तीर्त्वा ऋणं पितॄणां तेनैव क्रमेणानेकसुरभिमहि-
ष्यादिभूषितान्प्रामान्कृष्णानिवोद्वीक्ष्य उडुपवंशावलम्बकदाशार्होत्तारिता-
न्नदीवर्गान्पाण्डवानिवावगाह्य मधुरापुरमिव अन्धककुब्जादिशरणं धर्मशा-
लाकदम्बमभिनन्द्य करवीरपुरं गतवानस्मि ।
साम्बत्वं मदनस्य शंकररिपोः क्षीराब्धिकन्यागृह -
प्राशस्त्यं कमलस्य तामरसविख्यातिं गतस्याञ्जसा ।
इत्यमरः । 'दक्षिणो दक्षिणोद्भूतसरलच्छन्दवर्तिषु । अवामे त्रिषु यज्ञादिविधि-
ज्ञाने दिशि स्त्रियाम् ॥" इति सुधा । प्रवरा नदीभेदः । प्रवरा द्विजश्रेष्ठाः । नमा-
मीति । धाम आश्रयः । नतवत्सलेति । जीवनदो मेघः । न विद्यते दानवजी-
वनं यस्मात् सोऽदानवजीवनः । कृष्णा उभयतोमुखीति पुराणम् । उडुपः प्लवः ।
पक्षे चन्द्रः। सुरभिर्गौः। महिषी सैरिमी । पक्षे मनोज्ञरुक्मिणी । दाशार्हः कैवर्तश्रेष्ठः
पक्षे कृष्णः । अन्धका नेत्रहीनाः । पक्षे यादवभेदाः । कुब्जा भुग्नपृष्ठाः । पक्षे
कुब्जा काचन वनिता । साम्बत्वमिति । साम्बः शिव इति लक्ष्मीस्तुतिः ।
मातृसहित इति तत्त्वार्थः । तामिति भिन्नं पदम् । अरसा अशृङ्गारा पक्षे ताम-
रसम् । वै इति भिन्नं पदम् । 'कुण्ठो मन्दः क्रियासु यः' इत्यमरः । सभायामा