2023-09-01 05:16:47 by jayusudindra

This page has been fully proofread once and needs a second look.

सकललोकोत्तरयोः स्पृहणीयजयविजययोः भासमानबलप्रबलयोः विदु-
रप्राप्ययोः वैकुण्ठाभिधानयोस्तव त्वल्लोकस्य चेति द्वयोः संयोगः संवृत्त
इति सानन्दः तत्राशृणवं भवान्भूलोकं गतवानिति । ततश्चाहमन्विष्ये-
तस्तत आनन्दकाननं गतोऽस्मि । यत्र च ।
 
सदापापिदुरापा सा चन्द्राभापीनलक्षणा ।
प्रौढाप्याख्यातमोग्ध्या सा चित्रचर्या तरङ्गिणी ॥ ३ ॥
 
अपि च ।
करेहिचक्रं कलयञ्श्रियालिङ्गितकंधरः ।
विनायकप्रियः शंभुर्माधवश्व विराजते ॥ ४ ॥
 
तत्राप्यदृष्ट्वा मिलितोभयवाहिनीभरसंमर्दनर्तनलसत्कबन्धे प्रयागे
'कुरुक्षेत्रे च हरिपदाङ्किते गयाक्षेत्रे हिमवच्छिस्वरवरकदम्बे च विफलित-
 
"उत्तरं प्रतिवाक्ये सादूर्ध्वोदीच्योत्तमेऽन्यवत् । उत्तरस्तु विराटस्य तनये दिशि चो-
त्तरा ॥' इति विश्वः । जयोऽर्जुनस्तस्य विचयः । बलो बलरामस्तेन प्रबलः । पक्षे
'जयं च विजयं तथा । बलं च प्रबलं चैव सुनन्दं नन्दमेव च । कुमुदं कुमुदाक्षं
च द्वारपालांश्च पूजयेत् ॥' इति स्मृतिः । विदुरो वैचित्रवीर्यः । पक्षे 'ज्ञाता तु वि-
दुरो विन्दुः' इत्यमरः । आनन्दकाननं काशीक्षेत्रम् । सदापापीति । सदा<flag></flag>
दुरापेति शब्दतो विरोधः । पापिनां दुरापेति परिहारः । अत्रापिशब्दस्य सार्थक्या-
त्कश्चिचमत्कारः । एवमग्रेऽपि । चन्द्रः सुधांशुः । इनः सूर्यः । पक्षे पीनं लंक्षणं
यस्याः । प्रौढा प्रगल्भा । मौग्ध्यं मुग्धभावः । पक्षे प्रौढैराप्या प्राप्या । ख्यात-
सौन्दर्येति । 'मुग्धः सुन्दरमूढयोः' इति रत्नमाला । कर इति । अहिचक्रं सर्प-
समूहम् । श्रीर्विषम् । विनायको द्वैमातुरः । पक्षे हीति भिक्षं पदम् । सुदर्शना
युधम् । रमा । गरुडः । 'तरङ्गिण्यां च सेनायां वाहिनी' इति जगद्धरः । 'कबन्धं
सलिले रुण्डे कबन्धो राक्षसान्तरे' इति विश्वः । हरिः सिंहः । पक्षे नारायणः ।
"<flag></flag>लेन्द्रचन्द्रार्कविष्णुसिंहांशुवाजिषु । शुकाहिकपिभेकेषु हरिर्ना कपिले त्रिषु ॥