2023-09-01 05:05:59 by jayusudindra

This page has been fully proofread once and needs a second look.

न रागं मानसे धत्ते पक्षपाती च नाभवत् ।
हंसोऽयं कश्चिदपरो घनसाररुचिर्यतः ॥ १ ॥
 
ततः किंचिद्विहस्य यथाविधि संपूज्य प्राह । स्वायंभुव कलहोत्पत्ति-
नाटकसूत्रधार, कुतो भवान् इति । सोऽप्यवदत् । दक्षिणं पाणिमुन्नमय्य
सूर्यलोके निप्प्रभोऽयं चन्द्रोऽर्को मन्दनन्दनः ।
जिह्वां करालीं वहति वह्निः केनोपनीयसे ॥ २ ॥
 
अस्त्वेतत् । भवद्दर्शनकाङ्क्षया वैकुण्ठलोकमगमम् । यत्र च शोभ-
मानमुक्तावलयः राजमानातनुभाः सरससरसः असदृशः भूभागा वनि-
ताजनश्च । यत्र च कुमुद उत्तरद्वारपालः सद्विषः पर्यङ्करूपः शेषः
कलितमहापदो देवगणः न जनाः । गत्वा च । अहो दैवाद्योग्ययोरेव
 
न रागमिति । हंसः पक्षिभेदः । पक्षे संन्यासीति तत्त्वार्थः 'मानसं सरति स्वान्ते'
इति विश्वः । 'रागोऽनुरक्तौ मात्सर्ये' इति च । पक्षाभ्यां पातः पतनम् । पक्षे दोष-
भेदः । घने सारा श्रेष्ठा रुचिरासक्तिर्यस्य । पक्षे कर्पूरकान्तिः । 'अथ कर्पूरमस्त्रि-
याम् । घनसारश्चन्द्रसंज्ञः' इत्यमरः । 'हंसो विहंगभेदे स्यादर्के विष्णौ हयान्तरे ।
योगिमात्रादिभेदेषु परमात्मन्यमत्सरे ॥ निर्लोभे नृपतौ चैव शरीरमरुदन्तरे ।'
इति विश्वः । लोकसाधारणहंसलक्षणाभावादपरो लोकविलक्षण इत्युक्तम् । सूर्येति ।
सूरीणां ज्ञानिनामालोके दर्शने इति निन्दा । भानूद्द्योत इति तत्त्वार्थः । 'आलो-
कस्तु पुमान्द्योते दर्शने बन्दिभाषणे इति सुधा । मूढहर्षकः । पक्षे शनिः पुत्रो
यस्य । 'नन्दनं वासवोद्याने पुत्रे ना हर्षके त्रिषु' इति रत्नमाला । कराली क्रूरा।
पक्षे सप्तसु जिह्वासु काचन तच्छब्दवाच्या । 'काली कराली च मनोजवा च'
इति श्रुतिः । अस्त्वेतदिति । आवलिः । पक्षे वलयः । अतनुभा अनल्पका-
न्तयः । पक्षे मदनकान्तिः । सरसानि सजलानि सरांसि जलाशया येषु । पक्षे
अत्यन्तसशृङ्गारः । सदृक्शब्दः । पक्षे सदृशशब्दः । एकवचन बहुवचनश्लेषः ।
कुमुदस्तन्नामकः । पक्षे कुत्सितसंतोषाः । सत् विषं यस्य । पक्षे सतो द्विषो
द्वेषिणः । कलितं महत्पदं स्थानं येन । पक्षे संबद्धमहाविपदः । नेति सर्वत्र संब-
ध्यते । पूर्वोक्त एवालंकारः । गत्वा चेति । 'लोकस्तु भुवने जने' इत्यमरः