2023-09-01 04:57:13 by jayusudindra
This page has been fully proofread once and needs a second look.
द्वितीय उच्छ्वासः ।
अथ कदाचित्क्विचित्सुतमालालोकनजातानन्दः क्वचित्स्थाने लस-
त्पृथुलकुचतरुण्याहितदृष्टिचिः क्वचिन्मातुलजातासूयः क्वचित्सुतालसत्प्रीतिः
क्वचिन्मानिततापसगणः भवन इव वनेsपि विहरन् श्रीश्रीनिवासः
कस्मिंश्चित्प्रदेशे अतिधवलशरीरकान्तिं अनिलवेगविप्रकीर्णकपिशजटा-
कलापं किञ्जलकपुञ्जोद्भासितमिव सिताम्भोजवनकान्तिसमूहं कृष्णा-
जिनावगुण्ठितकलेवरं प्रलम्बवधमुदितमुरान्तकालिङ्गितमिव रेवतीजानिं
कृतहरिचन्दनाङ्गरागं गङ्गाजलस्नपितमिव शिवशिरः शेखरचन्द्रकिशोरं
सुतारोद्भासमानया दृष्ट्या कान्त्या च महत्या वीणया तपस्यया च राज-
मानम्, किं च वसन्तमिव सुरभिं ग्रीष्ममिव महातपस्थितिभासुरं वर्षावा-
सरमिव नभस्यागमनं कलयन्तं शरत्समयमिवानुभूतविधुप्रसादं हेमन्तमिव
सदाहिमहितं शिशिरमिव पुरस्कृतमाधवम् इत्यनुभूतसर्वर्तुकालोचित-
चरित्रमप्यज्ञातर्तुकालोचितचरित्रं पाण्डुमप्यर्जुनं आत्मभूस्पृहणीयमपि
निष्कामं पर्वतयुक्तमप्यनाश्रितभूभृतं क्षमावासमप्यम्बरचरं अपापमपि
नारदाभिधानं कंचन तपोनिधिं नयनातिथीचकार । अचिन्तयच्च ।
अथेति । शोभनास्तमालाः । पक्षे सुतपङ्क्तिः। लसन्तः पृथवो ये लकुच-
तरवो यस्मिन्निति स्थानविशेषणम् । पक्षे लसन्तौ पृथुलौ कुचौ यस्यास्तस्यामा-
हितदृष्टिः । 'सर्पभेदेऽथ धत्तूरे मातुर्भ्रातरि मातुलः' इति रत्नमाला । तालो वृक्ष-
भेदः । पक्षे सुता पुत्री । तापसा वृक्षभेदाः । कस्मिंश्चित्प्रदेश इति । तारा
कनीनिका । पक्षे क्लीबे रजतम् । 'महती वल्लकीभेदे प्राज्येऽपि स्यान्नपुंसकम् ।
तत्त्वभेदे पुमाञ्छ्रेष्ठे वाच्यवत्' इति सुधा । तपस्या तपः । 'सुरभिः स्यान्मनो-
ज्ञेऽपि' इति रत्नकोशः । आतपः । 'नभः खं श्रावणो नभाः' इत्यमरः । विधु-
र्विष्णुः । पक्षे चन्द्रः । 'प्रसादोऽनुग्रहस्वास्थ्यदयाकाव्यगुणेषु' इति विश्वः । महितं
पूजितम् । पक्षे हिमस्य हितम् । माधवः कृष्णः । पक्षे वसन्तः । 'ऋतुः स्त्रीपुष्प -
कालयोः' इति, 'पाण्डुः कुन्तीपतौ सिते' इति च हैमः । आत्मभूर्मदनो ब्रह्मा च ।
कामो मदन इच्छा च । पर्वतोऽद्रिः ऋषिभेदश्च। भूमृत्पर्वतो राजा च
'क्षमा क्षोण्यां तितिक्षायां' इति भास्करः । अपापोऽपगतजलः । नारदो जलदः ।